7 - ईश्वरस्य कृतयः क्रियाः च

From Samskrita Vyakaranam
Revision as of 23:24, 18 July 2021 by Vidhya (talk | contribs) (Protected "7 - ईश्वरस्य कृतयः क्रियाः च" ([Edit=Allow only administrators] (indefinite) [Move=Allow only administrators] (indefinite)))
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)

10---nyAyashAstram/10---prashnAH-uttarANi-ca/7-isvarasyakrtayahkriyahca
Jump to navigation Jump to search

प्रश्नः— ज्ञानम्‌, इच्छा, कृतिः, क्रिया इति क्रमः जीवात्मनः | 'इदं फलम्‌' इति ज्ञानं, तदधिकृत्य इच्छा, एवं फलविषयिणी कृतिः— एतादृशक्रमः जीवात्मनः | ईश्वरस्य ज्ञानम्‌, इच्छा, कृतिः च नित्या, अतः क्रियार्थं तादृशक्रमः न भवति | परन्तु ईश्वरस्य ज्ञानम्‌, इच्छा, कृतिः च नित्या इति चेत्‌, तर्हि किमर्थं तस्य प्रत्येकं क्रिया न नित्या ? बीजात्‌ अङ्कुरः किमर्थं सर्वदा न उत्पद्यते, प्रतिदिनं न उत्पद्यते ? कदाचित्‌ एव उत्पद्यते, अपि च कदा इति कथं निर्णीयेत, इति प्रश्नः |


उत्तरम्— एकस्य कार्यस्य उत्पत्तौ एकं कारणम्‌ अस्ति चेत्‌ न पर्याप्तं; सामग्री अपेक्षते | यथा घटं प्रति दण्डः कारणं, किन्तु केवलं दण्डः अस्ति चेत्‌ घटः उत्पद्यते इति वक्तुं न शक्यते | कारणसमुदायः— सामग्री— अपि अस्ति | कुलालः, मृत्‌, चक्रम्‌, इति एतत्‌ सर्वं यदा भवति, अपि च कुलालस्य ज्ञानम्‌, इच्छा, कृतिः अपि भवति, तदा एव घटस्य उत्पत्तिः जायते |


प्रश्नः— पुनः प्रश्नः उदेति यत्‌ अङ्कुरस्य प्रसङ्गे तादृशी सामग्री बहुषु दिनेषु लभ्यते, तथापि तेषु सर्वेषु दिनेषु तस्य अङ्कुरस्य उत्पत्तिः न जायते | सोमवासरे, मङ्गलवासरे, बुधवासरे, गुरुवासरे च एषु सर्वेषु दिनेषु सर्वा सामग्री आसीत्‌, किन्तु केवलं मङ्गलवासरे अङ्कुरः बीजात्‌ आगतः | तथा किमर्थम्‌ ?


उत्तरम्— कार्यसामान्यं प्रति ईश्वरः, ईश्वरस्य ज्ञानम्‌, इच्छा, यत्नः; अपि च कालः, प्रागभावः, प्रतिबन्धकाभावः, अदृष्टम्‌ इत्यादिकं कारणम्‌ | एतत्‌ सर्वमपि सामग्री-पदेन स्वीक्रियते | अदृष्टं नाम धर्माधर्मौ; पापं पुण्यं च | विशिष्टकालः अपि कार्यस्य कारणम्‌ | अदृष्टम्‌ अपि अपेक्षते | यः विषयः उपभोग्यते जीवेन, यस्मात्‌ विषयात्‌ भोगः जायते— सुखदुःखसाक्षत्कारः भोगः— सः भोगः कस्यचित्‌ जीवस्य; तस्य जीवस्य अदृष्टमपि अपेक्षते कार्यसामान्यं प्रति |


तर्हि अङ्कुरस्य उत्पत्त्यार्थम्‌ एषां कः प्रसङ्गः ? येन जीवेन अङ्कुरात्‌ उपभोगः, सुखदुःखसाक्षात्कारः यस्य जीवस्य भवितुम्‌ अर्हति— जन्तोः वा भवतु, मनुषस्य वा भवतु— यस्य कस्यापि तदुपभोगार्थं भवितुम्‌ अर्हति— तादृशजन्तोः अदृष्टम्‌ अपेक्षते, यस्य कृते अङ्कुरः उपभोगः | अदृष्टवशात्‌ एव कार्यम्‌ उत्पत्तुम्‌ अर्हति |


अपि च एतत्‌ सर्वम्‌ अस्माभिः न ज्ञायते | अदृष्टं—धर्मः अधर्मः—अस्माभिः न दृश्यते | अतः कदा सर्वाणि कारणानि उपस्थितानि इति अस्माभिः न ज्ञायते | कार्यं यदा जायते, तदा 'अहो अधुना कारणानि स्युः' इति अनुमातुं शक्यते अस्माभिः |


आहत्य कार्यस्य एकमेव कारणं न भवति | सर्वा सामग्री या भवति कस्यचित्‌ कार्यस्य, ताम्‌ अपेक्षते | यस्मिन्‌ दिने कार्यम्‌ उत्पन्नं, तत्पूर्वक्षणे इमानि सर्वाणि कारणानि सन्ति इति अनुमातव्यम्‌ |


Swarup – June 2016

07 - ईश्वरस्य कृतयः क्रियाः च.pdf