अवगत्य / अवगम्य
विषयः - अवगत्य / अवगम्य
प्रश्नः
"बालकः पठित्वा विषयम् अवगत्य परीक्षायाम् उत्तीर्णः अभूत्" उत "बालकः पठित्वा विषयम् अवगम्य परीक्षायाम् उत्तीर्णः अभूत्" -- अनयोः कः प्रयोगः साधुः?
उत्तरम्
"बालकः पठित्वा विषयम् अवगत्य परीक्षायाम् उत्तीर्णः अभूत्" च "बालकः पठित्वा विषयम् अवगम्य परीक्षायाम् उत्तीर्णः अभूत्" -- उभौ प्रयोगौ साधू स्तः |
- गम्लृ गतौ इति भ्वादिगणीयः सकर्मकः परस्मैपदी अनिट् धातुः | अनुबन्धलोपानन्तरं गम् इति अनुनासिकान्तः लौकिकधातुः निष्पन्नः |
- अव-उपसर्गसहित-गम्-धातुतः समासेऽनञ्पूर्वे क्त्वो ल्यप् (७.१.३७) इत्यनेन ल्यपि विहिते अवगत्य च अवगम्य इति रूपद्वयस्यापि सिद्धता |
- अव + गम् + ल्यप् इत्यस्यां दशायां वा ल्यपि (६.४.३८) इत्यनेन सूत्रेण अनुनासिकान्तस्य गम्-धातोः अनुनासिकलोपः भवति विकल्पेन |
- अनुनासिकस्य मकारस्य लोपः न भवति चेत्, अव + गम् + ल्यप् → अव + गम् + य → अवगम्य इति ल्यबन्तं रूपं सिद्धम् |
- अयं वैकल्पिकः अनुनासिकलोपः भवति चेत्, अव + गम् + ल्यप् → अव + ग + य इति स्तिथिः |
- तदा ह्रस्वस्य पिति कृति तुक् (६.१.७०) इत्यनेन ह्रस्वस्वरस्य तुक्-आगमः | ल्यप्-प्रत्ययः कृत् च पित् प्रत्ययः |
- अतः ल्यपि परे ह्रस्वस्य पिति कृति तुक् इत्यनेन अव + ग + य → अव + ग् अ + य → अव + ग् अ त् + य → अवगत्य इति सिध्यति |
- अनेन अव-उपसर्गपूर्वकस्य गम्-धातोः अवगत्य च अवगम्य इति रूपद्व्यमपि साधु | तथैव, आगत्य च आगम्य इत्यनयोः सिद्धत्वम् |
परिशिष्टम्
- गम्-धातुतः क्त्वा-प्रत्यये विहिते गम् + क्त्वा इत्यस्यां दशायाम्, अनुदात्तोपदेश-वनति-तनोत्यादीना-मनुनासिकलोपो झलि क्ङिति (६.४.३७) इत्यनेन अनुनासिकलोपे सति गत्वा इति क्त्वान्तं रूपम् |
- धेयं यत् 'अनुदात्तोपदेश-वनति-तनोत्यादीना-मनुनासिकलोपो झलि क्ङिति' (६.४.३७) इत्यस्य कार्यं किति, ङिति, झलादि प्रत्यये परे एव | यथा, गम् + क्तवतु → ग + तवत् → गतवान्/गतवती, गम् + क्त → ग + त → गतः/गता |
- ल्यप्-प्रत्ययः कित्-ङित्-भिन्नः, न झलादिः | अतः उपरितनेन सूत्रेण नित्यानुनासिकलोपो न भवति | अपि तु वा ल्यपि (६.४.३८) इत्यनेन ल्यपि परे गम्-धातोः अनुनासिकलोपः वैकल्पिकः | अस्मिन् 'अनुनासिकलोपो' इत्यस्य अनुवृत्तिः तस्मादेव पूर्वसूत्रात् |