४. एषः - सः - सा - तत्

From Samskrita Vyakaranam
Revision as of 23:14, 21 June 2024 by Shobha Chillal (talk | contribs)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)

13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/esha-saH-sA-tat
Jump to navigation Jump to search

एषः / सः, एषा / सा, एतत् / तत्

Home


एतत् / तत् इति नपुंसकलिङ्ग-प्रयोगः

समीपस्थस्य बोधनाय - एतत् / दूरस्य बोधनाय तत् इत्यनयोः प्रयोगः करणीयः। अधोभागे दत्तानि उदाहरणानि पश्यतु।

एतत् (समीपस्थस्य बोधनाय) तत् (दूरस्य बोधनाय)
एतत् भवनम् । तत् मन्दिरम्
एतत् वातायनम् तत् सोपानम्
एतत् कमलम् तत् चम्पकम्
एतत् छात्रम् तत् पर्णम्
एतत् क्रीडनकम् तत् पुस्तकम्
एतत् नेत्रम् तत् उपनेत्रम्
एतत् दुग्धम् तत् जलम्
एतत् विमानम् तत् रेलयानम्
एतत् फलम् तत् पुष्पम्
एतत् उद्यानम्। तत् सस्यम्।


एषः - सः इति पुंलिङ्ग-प्रयोगः

एषः(समीपस्थस्य बोधनाय) सः(दूरस्य बोधनाय)
एष नर्तकः सः गायकः
एषः चालकः सः पत्रवाहकः
एषः सौचिकः सः कुम्भकारः
एषः बालकः सः वृद्धः
एषः वानरः सः गजः
एषः हरिणः सः भल्लूकः
एषः मयूरः सः शुकः
एषः भिक्षुकः सः नृपः
एषः छात्रः सः अध्यापकः


एषा, सा इति स्त्रीलिङ्ग-प्रयोगाः

एषा(समीपस्थस्य बोधनाय) सा(दूरस्य बोधनाय)
एषा वैद्या सा शिक्षिका
एषा मक्षिका सा पिपीलिका
एषा लेखिका सा द्विचक्रिका
एषा बालिका सा वृद्धा
एषा माला सा शाटिका
सा लता सा कलिका
एषा पत्रिका सा पुस्तिका
एषा पाठशाला सा गोशाला
एषा सरस्वती सा पार्वती


कः ? , का  ? , किम् ?

एते प्रश्नवाचकाः   कोष्ठके दत्तानि पदानि पठतु स्मरतु च

प्रश्नः लिङ्गम् उत्तरम्
एषः / सः -कः ? पुंलिङ्गम् एषः नर्तकः / सः गायकः
एषा / सा - का ? स्त्रीलिङ्गम् एषा वैद्या  / सा शिक्षिका
एतत् / तत्  - किम् ? नपुंसकलिङ्गम् एतत् भवनम् / तत् मन्दिरम्
एषः सः


एषः कः? एषः नर्तकः । सः कः? सः गायकः ।
एषा सा
एषा वैद्या । सा शिक्षिका।
एतत् तत्

एतत् किम् ?

एतत् भवनम्।

तत् किम् ?

तत् मन्दिरम्।

एषः/सः / एषा/सा /

एतत्/तत्

कः/का/किम् ? प्रश्नः   उत्तरम्
चालकः
कः ? एषः कः ? एषः चालकः ।
रजकः
arm pointing left
Tat full arm 2.jpg
कः ? सः कः ? सः रजकः।
तक्षकः
कः ? एषः कः ? एषः तक्षकः।
सैनिकः
कः ? सः कः ? सः सैनिकः ।
विदूषकः
कः ? एषः कः ? एषः विदूषकः ।
न्यायाधीशः
कः ? सः कः ? सः न्यायाधीशः ।
कुम्भकारः
कः ? एषः कः ? एषः कुम्भकारः ।
धीवरः
कः ? सः कः ? सः धीवरः ।
गोपालकः
कः ? एषः कः ? एषः गोपालकः ।
हस्तिपकः
कः ? सः कः ? सः हस्तिपकः ।
गायिका
का ? एषा का ? एषा गायिका।
परिचारिका
का ? सा का? सा परिचारिका।
तुला
का ? एषा का ? एषा तुला।
छात्रा
का ? सा का? सा छात्रा।
नदी
का ? एषा का ? एषा नदी।
समदर्वी
का ? सा का? सा समदर्वी।
घटी
का ? एषा का ? एषा घटी।
द्विचक्रिका
का ? सा का? सा द्विचक्रिका।
कर्तरी
का ? एषा का ? एषा कर्तरी।
छुरिका
का ? सा का? सा छुरिका।
नेत्रम्
किम् ? एतत् किम् ? एतत् नेत्रम् ।
उपनेत्रम्
किम् ? तत् किम्? तत् उपनेत्रम् ।
पर्णम्
किम् ? एतत् किम् ? एतत् पर्णम्।
पुष्पम्
किम् ? एतत् किम् ? एतत् पुष्पम्।
गृहम्
किम् ? तत् किम्? तत् गृहम्।
विमानम्
किम् ? एतत् किम् ? एतत् विमानम्।
लोकयानम्
किम् ? तत् किम्? तत् लोकयानम्।
उद्यानम्
किम् ? एतत् किम् ? एतत् उद्यानम्।
सस्यम्
किम् ? तत् किम्? तत् सस्यम्।
व्यजनम्
किम् ? एतत् किम् ? एतत् व्यजनम्।


अभ्यासः

चित्राणि दृष्ट्वा उत्तराणि लिखतु

एषः/ एषा / एतत्
सः /सा /तत्
प्र. एषः कः?

उ. एषः मूषकः।

प्र. सः कः ?

उ. सः मार्जारः ।

प्र. एषः कः ?

उ. --- --- ।

प्र. सः कः ?

उ. --- --- ।

प्र. एषः कः?

उ. --- --- ।

प्र. सः कः ?

उ. --- --- ।

प्र. एतत् किम् ?

उ. --- ---?

प्र. सः कः ?

उ. --- --- ?

प्र. एतत् किम् ?

उ. एतत् व्यजनम्।

प्र. तत् किम् ?

उ. --- --- ।


एषः / एषा / एतत् ; कः / का / किम्

  उत्तरानुगुणं रिक्तस्थानानि पूरयतु


१) प्र. …..  ……….? उ.  एषा बालिका ।

२) प्र.  एषः कः ? उ.  ….. गणेशः।

३) प्र. …..  ……….? उ. एषा माला।

४) प्र. …..  ……….? उ. एतत् कमलम्।

५) प्र. …..  ……….? उ. एतत् पुष्पम्।

६) प्र. …..  ……….? उ. एषः बालकः।

७) प्र. …..  ……….? उ. एषः शङ्करः ।

८) प्र. …..  ……….? उ. एषा शिक्षिका।

९) प्र. …..  ……….? उ. एषः वृद्धः ।

१०) प्र. …..  ……….? उ. एषा नर्मदा।

११) प्र. …..  ……….? उ. एषः  तरुणः।

१२) प्र. …..  ……….? उ. एतत् नगरम्।


एषः / एषा / एतत् ; सः / सा / तत् ; कः / का / किम्

रिक्तस्थानानि पूरयतु

१) प्र.  एषः ……? उ.  ….  रामः ।

२) प्र.  सः ….. ? उ.  ….. देवालयः।

३) प्र. एषा  ……….? उ.  ….. माला।

४) प्र. …..  कः ? उ. सः  भारवाहकः।

५) प्र. तत्  ……….? उ. ….. नयनम्।

६) प्र. …..  ……….? उ. सः  बालकः।

७) प्र. …..  ……….? उ. एषः शङ्करः ।

८) प्र. …..  ……….? उ. सा नायिका।

९) प्र. …..  ……….? उ. सः स्वर्णकारः ।

१०) प्र. …..  ……….? उ. सा मालती।

११) प्र. …..  ……….?   उ. सः  तरुणः।

१२) प्र. …..  ……….? उ. तत् करवस्त्रम्।


अधः दत्तानि पदानि पश्यतु। उदाहरणम् अनुसृत्य प्रश्नवाक्यम् उत्तरवाक्यं च लिखतु

उदाहरणम्


प्र.  एषः कः ?

.  एषः भल्लूकः।

प्र. सा का?

. सा द्विचक्रिका ।

भल्लूकः देवता
माला लेखनी
धीवरः नर्तकः  
द्रोणी दर्वी
प्रश्नः ---

एषः / एषा / एतत्

कः / का / किम् ?

युतकम् गोशाला उत्तरम्‌ ---

एषः / एषा / एतत्  

दाडिमम् अध्यापिका
द्विचक्रिका श्वेतफलकम्
हरिणः सम्मार्जनी
अनुजः वृक्षः
जलम् सोपानम्
प्रश्नः ---

सः / सा / तत्

कः / का/ किम्  

शाटिका अध्यापकः उत्तरम्‌ ---

सः / सा / तत्

वानरः वातायनम्


एषः / सः, एषा / सा, एतत् / तत् PDF

एषः / सः, एषा / सा, एतत् / तत् PPT with audio

एषः / सः, एषा / सा, एतत् / तत् PPT without audio


PAGE 4