एतस्य/एतस्याः – तस्य/तस्याः नाम?
13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/etasya/etasyAH – tasya/tasyAH-nAma
![](http://static.miraheze.org/samskritavyakaranamwiki/thumb/e/e9/Home_13-2023.png/48px-Home_13-2023.png)
एतस्य/एतस्याः – तस्य/तस्याः नाम?
अधोलिखितानि पदानि ध्यानेन पठतु
==== दकारान्तः एतद् शब्दः ==== | ||
---|---|---|
पुंलिङ्गे | ||
विभक्तिः | एकवचनम् | बहुवचनम् |
प्रथमा | एषः | एते |
षष्ठी | एतस्य | एतेषाम् |
स्त्रीलिङ्गे | ||
विभक्तिः | एकवचनम् | बहुवचनम् |
प्रथमा | एषा | एताः |
षष्ठी | एतस्याः | एतासाम् |
नपुंसकलिङ्गे | ||
विभक्तिः | एकवचनम् | बहुवचनम् |
प्रथमा | एतत् / एतद् | एतानि |
षष्ठी | एतस्य | एतेषाम् |
==== दकारान्तः तद् शब्दः ==== | ||
---|---|---|
पुंलिङ्गे | ||
विभक्तिः | एकवचनम् | बहुवचनम् |
प्रथमा | सः | ते |
षष्ठी | तस्य | तेषाम् |
स्त्रीलिङ्गे | ||
विभक्तिः | एकवचनम् | बहुवचनम् |
प्रथमा | सा | ताः |
षष्ठी | तस्याः | तासाम् |
नपुंसकलिङ्गे | ||
विभक्तिः | एकवचनम् | बहुवचनम् |
प्रथमा | तत् / तद् | तानि |
षष्ठी | तस्य | तेषाम् |
दकारान्तः अस्मद् शब्दः - त्रिषु लिङ्गेषु समानः | ||
---|---|---|
विभक्तिः | एकवचनम् | बहुवचनम् |
प्रथमा | अहम् | वयम् |
षष्ठी | मम / मे | अस्माकम् / नः |
दकारान्तः युष्मद् शब्दः - त्रिषु लिङ्गेषु समानः | ||
---|---|---|
विभक्तिः | एकवचनम् | बहुवचनम् |
प्रथमा | त्वम् | यूयम् |
षष्ठी | तव / ते | युष्माकम् / वः |
एतस्य / एतस्याः – तस्य / तस्याः नाम? (त्रिषुलिङ्गेषु)
अधोलिखितानि पदानि ध्यानेन पठतु
प्रथमा एकवचनम् | षष्ठी एकवचनम् | प्रथमा बहुवचनम् | षष्ठी बहुवचनम् | ||
एतद् | पुंलिङ्गे | एषः | एतस्य | एते | एतेषाम् |
स्त्रीलिङ्गे | एषा | एतस्याः | एताः | एतासाम् | |
नपुं -लिङ्गे | एतत्/एतद् | एतस्य | एतानि | एतेषाम् | |
तद् | पुंलिङ्गे | सः | तस्य | ते | तेषाम् |
स्त्रीलिङ्गे | सा | तस्याः | ताः | तासाम् | |
नपुं -लिङ्गे | तत्/तद् | तस्य | तानि | तेषाम् | |
युष्मद् | त्रिषुलिङ्गेषु | त्वम् | तव /ते | यूयम् | युष्माकम् / वः |
अस्मद् | त्रिषुलिङ्गेषु | अहम् | मम /मे | वयम् | अस्माकम् / नः |
उदाहरणानि पश्यतु, पठतु च
अभ्यासः
उदाहरणानुगुणं रिक्तस्थानानि पूरयन्तु
1. एषः बालकः ।...एतस्य..... नाम मोहनः ।
2. एषः गायकः । .............. नाम कुमारगन्धर्वः ।
3. एषा बालिका ।...एतस्या... नाम मोहिनि ।
4. एषा गायिका ।............. नाम लता ।
5. एतत् नगरम् ।...एतस्य.... नाम हरिद्वारम् ।
6. एतत् भवनम् ।.............. नाम संस्कृतधामम् ।
7. सः घनश्यामः ।....तस्य..... जनकः वसुदेवः ।
8. सः श्यामः ।............. अग्रजः बलरामः ।
9. सः शिक्षकः ।............. पुस्तकम् एतत् ।
10. सः अधिकारिः ।............. कार्यालयः अत्र अस्ति।
11. सः रविः ।............. युतकं सुन्दरम् अस्ति ।
12. सः सिंहः ।............. गर्जनं भयानकम् ।
13. सा युवति ।....तस्या.... नाम गौरी ।
14. सा गीता ।.............. शाटिका सुन्दरी।
15. सा नदी ।.............. वेगः अधिकः ।
16. सा लता ।.............. पत्राणि कोमलानि ।
17. सा बुद्धिमती ।.............. साहाय्यं स्वीकरोतु ।
18. सा माता ।.............. सहनशक्तिः अधिका ।