क्त्वा- ल्यप्

From Samskrita Vyakaranam
Revision as of 21:14, 4 June 2023 by Anjali (talk | contribs)

13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/ktvA-lyap
Jump to navigation Jump to search
Home

क्त्वा- ल्यप् प्रयोगः

क्त्वा , ल्यप् इति प्रत्ययौ स्तः।

एकः कर्ता कार्यद्वयं क्रमेण करोति । पूर्वकार्यं यद अस्ति तस्य सूचना धातोः क्त्वान्तरूपेण भवति।  

यदि धातुः उपसर्गसहितः भवति भवति तर्हि क्त्वाप्रत्ययस्य स्थाने ल्यप्-प्रत्ययः भवति।

क्त्वान्त् -ल्याप्‌प्रत्ययान्तानि अव्ययानि स्तः।

क्त्वा प्रत्ययः

ध्यानेन पठतु---

प्रथमं कार्यं । द्वितीयं कार्यम् क्त्वान्त रुपम्
बालकः देवालयं गच्छति। बालकः अर्चति। बालकः देवालयं गत्वा अर्चति।
बालकः खादति। बालकः पिबति। बालकः खादित्वा पिबति।
माता स्‍नाति। माता मोदकं पचति। माता स्‍नात्वा मोदकं पचति।
सः क्रीडति। सः खादति। सः क्रीडित्वा खादति।
त्वं पुस्तकं पठसि। त्वं उत्तरं देहि। त्वं पुस्तकं पठित्वा उत्तरं देहि।
अहम् आपणं गच्छामि। अहं शाकानि आनयामि। अहम् आपणं गत्वा शाकानि आनयामि।
कृषकाः भूमिं कर्षन्ति। कृषकाः जलं सिञ्चन्ति। कृषकाः भूमिं कृष्ट्वा जलं सिञ्चन्ति।
कर्मकाराः कार्यं कुर्वन्ति। कर्मकाराः वेतनं नयन्ति। कर्मकाराः कार्यं कृत्वा वेतनं नयन्ति।
रामः चिन्तयति। रामः उत्तरं लिखति। रामः चिन्तित्वा उत्तरं लिखति।


क्त्वान्त रूपाणि ---

धातुः लट्‌लकारः ए.व. क्त्वान्तरूपम्
१. गम् गच्छति गत्वा
२. पठ् पठति पठित्वा
३. लिख् लिखति लिखित्वा
४. कृ करोति कृत्वा
५. हस् हसति हसित्वा
६. खाद् खादति खादित्वा
७. धाव् धावति धावित्वा
८. पत् पतति पतित्वा
९. स्मृ स्मरति स्मृत्वा
१०. क्री क्रीणाति क्रीत्वा


विशेषरूपाणि--

धातुः लट्‌लकारः ए.व. क्त्वान्तरूपम्
१. पा पिबति पीत्वा
२.   दा ददाति दत्वा
३. स्था तिष्ठति स्थित्वा
४.   रुद् रोदिति रोदित्वा
५.   पच् पचति पक्त्वा
६.   भू अस्ति भूत्वा
७.   दृश् पश्यति दृष्ट्वा
८. पृच्छ् पृच्छति पृष्ट्वा
९. नम् नमति नत्वा
१०. ज्ञा जानाति ज्ञात्वा
११. ग्रह् गृह्णाति गृहीत्वा