सम्बन्धषष्ठी शब्दानां प्रयोगः
13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/sambandhaSaSThI zabdAnAM-prayogaH
सम्बन्धषष्ठी - शब्दानां प्रयोगः
अवधेयम् ---
द्वयोः पदार्थयोः मध्ये किदृशः सम्बन्धः भवति इति सम्बन्धषष्ठी सूचयति।
यत्र सम्बधः कथनीयः भवति तत्र षष्ठीविभक्तिः प्रयुज्यते।
शब्दद्वयम् | शब्दद्वयस्य साहाय्येन वाक्यानि |
---|---|
शिवः - कार्तिकेयः | = शिवस्य पुत्रः कार्तिकेयः । |
गणेशः - पार्वती | = गणेशस्य माता पार्वती। |
पार्वती -शिवः | = पार्वत्याः पतिः शिवः । |
गङ्गानदी - वाराणसीनगरम् | = गङ्गानद्याः तीरे वाराणसीनगरम् । |
पुस्तकम् - रामायणम् | = पुस्तकस्य नाम रामायणम्। |
भारतम् - पन्तप्रधानः मोदी | = भारतस्य पन्तप्रधानः मोदी । |
गृहम् - नाम अवन्तिली | = गृहस्य नाम अवन्तिली । |
विष्णुः - लक्ष्मीः | = विष्णोः भार्या लक्ष्मीः। |
रामः - भरतः | = रामस्य भ्राता भरतः। |
अभिमन्युः – अर्जुनः | = अभिमन्योः पिता अर्जुनः । |
सम्बन्धषष्ठीम् उपयुज्य शब्दानां प्रयोगः
उदाहरणम् अनुसृत्यः आवरणे विद्यमानस्य पदस्य उचितं रूपं रिक्तस्थाने लिखतु ---
१. (कृष्णः) कृष्णस्य भगिनी सुभद्रा।
२. (गोदावरी) ----- तीरे नाशिकनगरम् अस्ति।
३. (कुन्ती) ------ पुत्रः कर्णः।
४. (उत्तरा) ----- पतिः अभिमन्युः।
५. (वीणा) ----- ध्वनिः मधुरम्।
६. (सा) ----- नाम भवानी।
७. ( नदी) ----- जलं नास्ति।
८. (शाटिका) ----- वर्णः रक्तः ।
९. ( श्यामः) ----- अग्रजः रामः ।
१०. (वृक्षः) ----- फलानि मधुराणि।
११. (फलम्) ----- नाम आम्रफलम्।
१२. ( पुस्तकम्) ----- नाम स्वाध्यायदीपिका।
१३. (वैद्या) ----- कार्यं रुग्णसेवा।
१४. (भगिनी)----लेखनी।
१५. (अहम्) ----- कार्यं अध्ययनम्।
आवरणे विद्यमानस्य पदस्य उचितं रूपं रिक्ते स्थले लिखतु
उदाहरणम् –
(यमुनानदी) यमुनानद्याः तीरे मथुरा अस्ति।
(मथुरा) -------------------- राजा उग्रसेनः ।
(उग्रसेनः) ----------------------- पुत्रः कंसः ।
(कंसः) --------------------- भगिनी देवकी ।
(देवकी) ------------- पतिः वसुदेवः, पुत्रः कृष्णः ।
कृष्णः (नन्दगोपः) ---------------- (यशोदा) --------------च पालितपुत्रः अपि।
(कुन्ती) ---------------------- पुत्रः अर्जुनः ।
सः अर्जुनः (कृष्णः) ---------------- (भगिनी) ------------ (सुभद्रा) ------------------------------- पतिः।
(सुभद्रा) ------------------- पुत्रः अभिमन्युः ।
अभिमन्युः (उत्तरा) --------------------पतिः।
(अयोध्या) --------------------- राजा दशरथः ।
(दशरथः) ---------------------- चत्वारः पुत्राः ।
(प्रथमः) ----------------------------- नाम रामः ।
(द्वितीयः) --------------------------- नाम भरतः ।
( तृतीयः) ---------- (चतुर्थः) ---------- च नाम लक्ष्मणः शत्रुघ्नः च ।
रामः (कौसल्या) ---------------------------- पुत्रः ।
भरतः (कैकेयी) -------------------------- पुत्रः ।।
(लक्ष्मणः) -------------- (श्त्रुघ्नः) --------------- च माता सुमित्रा ।
रामः (रावणः) -----------(कुम्भकर्णः) ------------ च वधं कृतवान् ।
आवरणे विद्यमानस्य पदस्य उचितं षष्ठ्यन्तं रूपं रिक्ते स्थले लिखतु
वीणा (सुरेशः) ----------------------------- अग्रजा ।
गरिमा (मोहितः) ---------------------------- अनुजा ।
पवनः (सविता) ----------------------------- अग्रजः ।
सुन्दरः (साक्षी) ----------------------------- अनुजः ।
देहली (भारतदेशः) ------------------------- राजधानी ।
चेन्नै (तमिलनाडु- राज्यम्) --------------------मुख्यं नगरम् ।
पटना (बिहार-राज्यम्) -------------------------राजधानी ।
धर्मस्थलं (काशी) -----------------------------प्रमुख-स्थानम् ।
पूर्णः काश्मीरः (भारतदेशः) ------------------अभिन्नम् अङ्गम् अस्ति ।
आवरणे विद्यमानस्य पदस्य उचितं षष्ठ्यन्तं रूपं रिक्ते स्थले लिखतु
मैसूरुनगर-प्रवासः
मैसूरुनगरः प्रसिद्धः अस्ति। प्रतिदिनं बहवः प्रवासिकाः मैसूरुनगरम् आगच्छन्ति। नगरे प्रासादाः, देवालयाः, उद्यानानि, मृगालयः च सन्ति । अत्र किं किम् अस्ति इति विषये अधोभागे वाक्यानि लिखितानि सन्ति। आवरणे दत्तानां पदानां षष्ठीविभक्तिरूपं लिखन्तु।
उदाहरणम् –
(कावेरीनदी) - कावेरीनद्याः तीरे मैसूरुनगरम् अस्ति।
(नगरम्) ------ मध्ये प्रसिद्धः प्रासादः अस्ति।
(प्रासादः) नवरात्रि उत्सवसमये ------ सुन्दरः दीपालङ्कारः भवति ।
(दीपालङ्कारः) ------ दर्शनं कर्तुं बहु जनाः आगच्छति।
(जलबन्धः) नगरस्य समीपे महान् जलबन्धः अस्ति। ------ नाम कृष्णराजसागरः ।
(सः) ------ मुख्य-अभियन्ता विश्वेश्वरय्यः ।
(उद्यानम्) जलबन्धस्य पार्श्वे उद्यानम् अस्ति। ------ सस्यानि पुष्पाणि च मनोहराणि सन्ति।
(मृगालयः) नगरे स्थितस्य ------ विविधान् प्राणिनः दृष्ट्वा बालाः हर्षन्ति ।
(शैलः) नगरे स्थितस्य ------ उपरि देवालयः अस्ति।
(देवी) तस्मिन् देवालये ------ दर्शनं कृत्वा भक्ताः मुदिताः भवन्ति।