४०. तुमुन् प्रत्ययः

From Samskrita Vyakaranam

13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/tumun-pratyayaH
Jump to navigation Jump to search
Home

एतत् संभाषणं पठत अवगच्छत च –

माता – पुत्र ! शीघ्रम् आगच्छतु । बहिः गच्छावः ।

पुत्रः – किं कर्तुम् अम्ब ?

माता – आपणं गन्तुम्

पुत्रः – किं क्रेतुम् ?

माता – पुस्तकापणे शालापुस्तकानि क्रेतुम्। भवान् अग्रिमे सप्ताहे शालां गच्छति खलु ?

पुत्रः – किमर्थं शालां गन्तव्यम् अम्ब ?

माता – पाठं पठितुम्। भवान् बुद्धिमान् भवितुम् इच्छति खलु ?

पुत्रः – आम् अम्ब ।

माता – देवालयम् अपि गच्छावः।

पुत्रः – भगवन्तं प्रार्थयितुम्

माता– आम् ।

पुत्रः – तदनन्तरं पातुं खादितुं च किमपि क्रीणीवः अम्ब ?

माता– अस्तु वत्स ! तथा एव कुर्वः।

पुत्रः – अद्य सायङ्काले क्रीडितुम् आगच्छामि इति शिवः उक्तवान् अम्ब ।

माता – तावत्पर्यन्तं गृहं प्रत्यागन्तुं शक्नुवः । इदानीम् आगच्छतु ।


अवधेयम् ---

कर्तुम्, गन्तुम्, क्रेतुम्, पठितुम्, भवितुम्, प्रार्थयितुम्, पातुम्, खादितुम्, क्रीडितुम्, प्रत्यागन्तुम् इति एतेषु शब्देषु “तुमुन्” इति प्रत्ययः योजितः अस्ति | एकस्याः क्रियायाः अपेक्षायाम् इच्छायां वा यदि अन्या काचित् क्रिया भवति तर्हि अपेक्षितक्रियायाः प्रदर्शनाय “तुमुन्” इति प्रत्ययस्य उपयोगः भवति | यथा –


रामः चषकं स्वीकरोति | दुग्धं पिबति | रामः दुग्धं पातुं चषकं स्वीकरोति |

अत्र रामस्य दुग्धपाने इच्छा अस्ति | अतः सः चाषक-स्वीकरणरूपम् अन्यां क्रियाम् अपि करोति |


अथवा “किमर्थम्” इति प्रश्नस्य यत् उत्तरं भवति तत्र प्रायः “तुमुन्” इति प्रत्ययस्य उपयोगः भवति |

यथा – रामः किमर्थं चषकं स्वीकरोति ? रामः दुग्धं पातुं चषकं स्वीकरोति |  


“रामः पठितुं शालां गच्छति |” – एतस्मिन् वाक्ये गच्छति इति क्रिया पठनोद्देशेन अस्ति । अतः पठनम् - उद्धिष्टक्रिया । एवम् उद्दिष्टक्रियायाः “तुमुन्” भवति ।


तुमुन्नन्तरूपाणि ---

वर्तमानकालः तुमुन्नन्तरुपम्
१. पतति पतितुम्
२. हसति हसितुम्
३. धावति धावितुम्
४. पठति पठितुम्
५. भवति भवितुम्
६. चलति चलितुम्
७. नयति नेतुम्
८. लिखति लेखितुम्
९. मिलति मेलितुम्
१०. क्रीणाति क्रेतुम्
११. शृणोति श्रोतुम्
१२. नयति नेतुम्
१३. करोति कर्तुम्
१४. गृह्णाति ग्रहीतुम्
१५. पृच्छति प्रष्टुम्
१६. पश्यति द्रष्टुम्
१७. पिबति पातुम्
१८. ददाति दातुम्
१९. उत्तिष्ठति उत्थातुम्
२०. उपविशति उपवेष्टुम्


पठत अवगच्छत च -

' इच्छति , शक्नोति च ' प्रयोगे तुमुन्

रामनाथः लेखनम् इच्छति । ———> रामनाथः लेखितुम् इच्छति ।

माला पठनम् इच्छति । ———> माला पठितुम् इच्छति ।

राघवः पानम् इच्छति । ———> राघवः पातुम् इच्छति ।

गीता हसनम् इच्छति । ———> गीता हसितुम् इच्छति ।

रिषभः क्रीडनम् इच्छति । ———> रिषभः क्रीडितुम् इच्छति ।


लता (गानम्) गातुं शक्नोति ।

राधा ( नर्तनम्) नर्तितुं शक्नोति ।

बालकः (धावनम्) धावितुं शक्नोति ।

धनिकः (दानम्) दातुं शक्नोति ।

शिष्यः श्लोकान् (पठनम्) पठितुं शक्नोति ।


अभ्यासः


१) कोष्ठगतशब्दान् तुमुन्नन्तपदेषु परिवर्त्य रिक्तस्थानानि पूरयतु ।

१. राजेशः ______ इच्छति (कथनम्)  ।        

२. रमेशः ______ इच्छति (गमनम्)  ।  

३. शिशुः  ______ इच्छति (खादनम्) ।     

४. बालकः ______ इच्छति (चलनम्) ।     

५. कर्मकारः कर्म______ इच्छति (करणम्) ।   

६. अहं ______ विद्यालयं गच्छामि । (पठनार्थम्)

७. देवदत्तः ______ गच्छति । (शयनार्थम्)

७. शिष्याः ______ गच्छन्ति । (वन्दनार्थम्)

८. भक्ताः ______ मन्दिरं गच्छन्ति । (अर्चनार्थम्)

९. मूषकः ______ भोजनालयं प्रविशति । (खादनार्थम्)

१०. आरक्षकाः ______ द्वारे तिष्ठन्ति । (रक्षणार्थम्)


२) कोष्ठे दत्तेन धातुना सह तुमुन्-प्रत्ययं योजयित्वा उचितं रूपं रिक्ते स्थाने लिखतु ।

१. गोविन्दः तत्र ______ शक्नोति । (स्था)

२. बालिका एतत् पुस्तकं ______ शक्नोति ।(पठ्)

३. यूयं गीताम् ______ शक्नुथ । (उपदिश्)

४. वानरः वृक्षम् ______ शक्नोति । (आरुह्)

५. सर्पः बिलं ______ शक्नोति । (प्रविश्)


3) क्त्वान्ते तुमुन्नन्ते च परिवर्तनस्य अभ्यासः -

उदाहरणम् अनुसृत्य वाक्यानां परिवर्तनं करोतु ---

वर्तमानकाले क्त्वान्ते तुमुन्नन्ते
उदा. पितामही स्नाति; पितामही देवम् अर्चति । पितामही स्नानं कृत्वा देवम् अर्चति । पितामही देवम् अर्चितुम् स्नानं करोति।
१. शिशुः दुग्धं पिबति। शिशुः क्रीडति।
२. माता पाकशालां गच्छति। माता ओदनं पचति।
३. नर्तकी नृत्यति। जनान् तोषयति।
४. रामः विद्यालयं गच्छति। अध्ययनं करोति।
५. त्वं मधुरं खादसि। हस्तं प्रक्षालयसि।
६. शिष्यः रामायणं पठति। अर्थं वदति।
७. माला आपणं गच्छति। शाकानि आनयति।
८. अहं कारयानं चालयामि। कार्यालयं गच्छामि।
९. वानरः वृक्षम् आरोहति। फलं खादति।
१०. भवान् क्रीडति। पदकं प्राप्नोति।


तुमुन् प्रत्ययः PDF

तुमुन् प्रत्ययः PPTX with audio

तुमुन् प्रत्ययः PPTX without audio


PAGE 40