तत्पुरुषसमासाभ्यासः

From Samskrita Vyakaranam
Revision as of 23:55, 25 June 2022 by Vidhya (talk | contribs)

14---samAsaH/03A---tatpuruShasamAsaH---sAmAnyatatpuruSHa-samAsaH/tatpuruSHasamAsa-abhyAsaH
Jump to navigation Jump to search



एतेषां समस्तपदानां विग्रहवाक्यं विलिख्य, समासनाम, सूत्रञ्च निर्दिशत –

१)      मन्दिरगता बालिका भोजनम् अकरोत् ।

२)      पुत्रीप्राप्तं पारितोषिकं माता च पिता च अभिनन्दतः।

३)      पुत्रीसमा छात्रा गुरुं नमति।

४)      कृष्णश्रितः भक्तः सन्तुष्टः जातः।

५)      मध्याह्ने सूर्यस्य आतपः तीक्ष्णः।

६)      अनुजा शालाप्राप्ताभिः सखीभिः सह क्रीडति।

७)      उत्तमा बालिका गृहपाठं पूर्वाह्णे एव कृतवान् ।

८)       चोराः मध्यरात्रे आगच्छन्ति।

९)      कष्टातीतस्य जनस्य सुखं मधुरतरं भाति।

१०)     विषादयुक्तः अर्जुनः युद्धं कर्तुं नोत्सहते ।

११)     नगरप्राप्तः ग्रामीणः विस्मयान्वितोऽभवत्।

१२)     अपराह्ने वयं क्रीडाम।

१३)     संशयापन्ना छात्रा अध्यापकं पृष्टवती।

१४)     लक्षमणप्रयुक्तः बाणः मेघनादं व्यदारयत्।

१५)     सीता रामस्य प्राणसमा आसीत्।

१६)     मध्याह्नस्य भोजनं सम्यगासीत्।

१७)     सर्वाः महिलाः मातृसदृश्यः माननीयाः।

१८)     विद्याविहीनः पशुः इति सुभाषितं सूचयति।

१९)     रज्जुबद्धान् काष्ठान् ग्रामम् आनय।

२०)     सीतानुगतः रामः वनं प्राविशत्।

२१)     लक्ष्मीसहितायाः नारायणाय नमः।

२२)     अर्जुनः युद्धे शिवदत्तस्य अस्त्रस्य प्रयोगं कृतवान्।

२३)     दुःखातीतः वृद्धा ततः निर्गता।

२४)     विष्णुप्रयुक्तं चक्रं राक्षसं समहरत् ।

२५)     दण्डताडितः सर्पः निर्गच्छति।

२६)     पुरुषोत्तमः रामः अयोध्यायाः राज्यम् अपालयत् ।

२७)     पुस्तकपठनादौ अनुच्चरितमपि तत् ज्ञातं सत् बोधयति इति अनुभवः।

२८)     मातृसदृशी शिक्षिका छात्रान् पाठयति।

२९)     दुर्योधनः अहं युधिष्ठिरम् अर्धराज्यं न दास्यामि इति उक्तवान्।

३०)     हरित्रातः भक्तः नमस्कृतवान्।

३१)     रोगतप्तः औषधं स्वीकरोति।

३२)     तस्य अर्धकायस्य स्रसाः बृहत्यः सन्ति।

३३)     गर्तपतिता बालिका उच्चैः नर्दति।

३४)     कार्यालप्राप्तः कर्मकरः कार्यम् अकरोत् ।

३५)     कालिदासविरचितानि काव्यानि सर्वे पठेयुः।

३६)     छात्राः व्यासरचितं महाभारतं पठान्ति।

३७)     गुरुदेवाय नमः।

३८)     न सुखप्रति संसारे ।

३९)     तारकः ब्रह्मदत्तेन वरेण देवान् पराजितवान्।

४०)     शबरी दशरथपुत्रस्य रामस्य भक्ता आसीत् ।

४१)     प्रेमपूर्णे परिसरे संभाषणस्य अभ्यासं करवाम।

४२)     गुडमिश्रितं भोजनं सम्यग्भवति।

४३)     अश्वपतितः सैनिकः व्रणयुक्तः अभवत्।

४४)     भगवदधीनं जगत् वर्तते ।

४५)     यत् प्रमाणसिद्धं वर्तते तत्र इदम् इति वदामः।

४६)     शरणम् आगतः तु सदैव रक्षणीयः।

४७)     ग्रामं गमी बालकः शालां प्रविशति।

४८)     तस्मै इदं पुस्तकं दातव्यम् ।

४९)     धनाशा त्यक्ता चेत् पुरुषः वैराग्यं प्राप्नोति।

५०)     विद्यया हीनः छात्रः न शोभते।

५१)     न दोषप्रति वेदान्तदर्शने ।

५२)     भवतः कार्यं निर्विघ्नं समापयेत् ।

५३)     शरविद्धः हंसः भूमौ पतितः।

५४)     गङ्गाजलं सर्वपापं हरति।

५५)     सिंहात् भीतः व्याधः अरण्यात् पलायते ।

५६)     सभायां पण्डितः कार्यक्रमे सम्भाषाणं करोति ।

५७)     शङ्कराचार्यः बाल्यकाले एव शास्त्रेषु प्रवीणः आसीत् ।

५८)     माता मन्दिरं गतवती पूजार्थम्

५९)     धनहीनाः जनाः बहुदुखम् अनुभवन्ति अस्मिन् लोके।

६०)     शिवेन मन्मतः अग्निना दग्धः

६१)     माया ईश्वराधीना वर्तते इति अद्वैतिनः मतम् ।

६२)     दानाय पात्रम्

६३)     स्नानाय इदं चूर्णम् अस्ति।

६४)     सर्पेणः दृष्टः मूषकः।

६५)     ज्ञानव्यवधाने ज्ञानं न जायते ।

६६)     दशरथः युद्धे निपुणः आसीत्।

६७)     आकाङ्क्षा तु पदधर्मः ज्ञातव्यः भवति।

६८)     महाभारते युद्धे अन्ते दुर्योधनः जले मग्नः आसीत् ।

६९)     रोगान्मुक्तः वृद्धः अत्यन्तं सन्तुष्टः आसीत्।  

७०)     सुखप्राप्ताः जनाः मन्दिरात् गच्छन्ति।

७१)     हरिः लतयाः वर्षेण पूर्वः

७२)     भूतेभ्यः बलिः सर्वैः दातव्यः।

७३)     गुडेन सम्मिश्रिताः धानाः सर्वैः इच्छन्ति ।

७४)     गुर्वाधीनः छात्रः गुरुकुले पठति स्म।

७५)      भूतपूर्वः प्रधानमन्त्री विदेशं गतवान् ।

७६)     सामिकृतात् अध्ययनात् न कोपि फलं भवति ।

७७)     सर्वैः प्रजाहितं करणीयम् ।

७८)     छात्राः परीक्षाभयं प्राप्नुवन्ति।

७९)     मध्याह्ने सूर्यस्य तापः अधिकः भवति।

८०)     भवदर्था समासकक्षा प्रवर्तमाना अस्ति।

८१)     स्थालीपक्वेभ्यः फलेभ्यः रसं अनुभूतवान् बालकः।

८२)     अधरहिमालये बहवः योगिनः वसन्ति।

८३)     दुष्टजनानां कुकर्मभ्यः भीतिः नास्ति कलियुगे ।

८४)      गुरुसुश्रुषाम् अकृत्वा एव विद्यानदीं पारयितुं न शक्यते ।

८५)     मन्दिरे देवार्थं नैवेद्यम् अस्ति ।

८६)     अन्तिकात् आगता राजकुमारी सभायाम् उपविष्टान् सर्वान् अपश्यत्।

८७)     गोविन्दात् रामः मासावरः

८८)     वातेन छेद्यं तृणं गृहीत्वा ऋषिः गच्छति यागार्थम् ।स

८९)     हरित्रातः भक्तः संसारसागरं पारयति।

९०)     तिरुपत्यां देवालये दध्योदनं प्रसादरूपेण दीयते ।

९१)     गङ्गात्यस्ताः सीतारामलक्ष्मणाः भरद्वाजाश्रमं प्राप्तवन्तः।

९२)     राजधानीप्राप्तः मन्त्रिगणः प्रधानमन्त्रिणा अमिलत्।

९३)     अधरहिमालये कस्मिंश्चित् आश्रमे अयं योगी वसति।

९४)     प्रीतिबन्धः ईश्वरः भक्तानां साहाय्यं करोति ।

९५)     दूरादागतः योगी ग्रामम् अप्रविशत् ।

९६)     पुरुषाधीना प्रकृतिः जगत्कारणं नास्ति इति वेदान्तिनां मतम् ।

९७)     जन्ममरणचक्रात् बहिर्गमनं मोक्षः ।

९८)     एकः छात्रः तीर्थे वायसः इव गच्छन् आसीत्।

९९)     रमेशः सुरेशात् मासपूर्वः

१००)     उत्तरभारते बहूनि सुन्दराणि मन्दिराणि सन्ति।

१०१)     तेन यत् न साधितं, तत् अस्माभिः अर्धवर्षेण साधितम् ।

१०२)     कालः सर्वोपि सूर्याधीनः एव इति भाति ।

१०३)    अस्मद्पिता अस्य नगरस्य अधिकारी इति उक्तं कैश्चित् बालकैः।

१०४)    गोहितार्थं यजमानः नितरां कार्यं करोति ।

१०५)   बालकेन स्वयंकृतं कार्यं दृष्ट्वा माता सुन्तुष्टा जाता ।

१०६)   अक्षक्षौण्डः शकुनिः पाण्डवान् धूर्तेन पराजितवान् ।

१०७)   बालकार्थं माता अन्नं परिवेषितवती ।

१०८)   स्वर्गपतितः त्रिशङ्कुः भूमौ अपि स्थातुम् अशक्तः आसीत् ।

१०९)   मूर्खशतम् जनाः तस्यां सम्भायाम् आसन् ।

११०)    युधिष्ठिरः पाण्डवेषु ज्येष्ठः आसीत् ।

१११)    दासीपुत्रः विदुरः नीतिनिपुणः आसीत्।

११२)    दूरादागतः यात्रिकः रमेशगृहं प्रविष्टवान् ।

११३)    देवालये मन्त्राः हृदि स्पृशन्ति।

११४)    अभिवृक्षं ( वृक्षम् अभि) गच्छति।

११५)    पूर्वाह्णे आरब्धं कार्यं दिनस्य अन्ते अपि न समापितम् ।

११६)    केचन पूर्वसंस्कारात् स्तोकात् मुक्ताः भवन्ति।

११७)   अनुज्येष्ठं  प्रविशन्तु  भवन्तः।

११८)    आतपे शुष्कानि वस्त्राणि ग्रहीत्वा माता गृहे गतवती ।

११९)    काराबन्धः पुरुषः दुःखेन जीवनं अयापयत् ।

१२०)   तस्मात्ते वितराम्यद्य पुत्रमात्मसमं गुणैः।

१२१)    तत्र लङ्कां समासाद्य पुरीं रावणपालिताम्

१२२)    श्रुत्वा तु तं वानरसैन्यशब्दं लङ्कागता राक्षसराजभृत्याः।

१२३)    क्षीरौदनेन साज्येन सम्पूज्य च भवं प्रभुम्।

१२४)    पश्चार्धेन प्रविष्टः शरपतनभयाद्भूयसा पूर्वकायम्

१२५)    ज्येष्ठो भ्राता पितृतुल्यो मृते पितरि शौनकः।

१२६)     ईश्वरः कालातीतः अस्ति।

१२७)     अपूर्वः कोऽपि कामान्धः दिवा नक्तं न पश्यति।

१२८)     रामबाणहतो वीरश्चचाल च मुमोह च ।

१२९)     लोकहितं मम करणीयम्।

१३०)     प्रजानामेव भूत्यर्थं स ताभ्यो बलिमग्रहीत्।

१३१)     न दोषप्रति बौद्धदर्शने।

१३२)     ब्रह्मविद्या किमर्थेयं नान्यन्मुक्ते फलं ततः।

१३३)     रक्षिता भवभीतानां भवः परमपावनः।

१३४)     दुष्टभीति-महाभीति भञ्जनायै नमो नमः।

१३५)     नृपहतपुत्रं पश्यति क्रुद्धब्राह्मणः।

१३६)     शिष्यपठितपुस्तकानि न कदापि पठ्यन्ते अन्यैः जनैः।

१३७)    अद्यत्वे बहवः युवकाः आत्महत्यां कुर्वन्ति ।

१३८)     मूर्खराजा एकदा राज्यं अपालयत् ।

१३९)     उपजरसं भवन्ति रोगाः।

१४०)    अध्युपानहं ( inside the shoe) सूक्ष्मः कण्टकः तुदति पादम् । A little thorn inside the shoe pricks the foot.

१४१)     ब्रह्मवित् गुणातीतः भवति।

१४२)    मध्येगङ्गात् आनय। गङ्गामध्यात् आनय।

१४३)    वाक्यं वक्त्राधीनम् एव ।

१४४)    आमूलाच्छ्रोतुमिच्छामि ।

१४५)    मौल्ययुक्ता माला ग्रीवायाः अपगच्छति ।

१४६)    चुल्लीपक्वं वृन्ताकं पश्य।

१४७)     तत्त्वम् अंशः असि।

१४८)     त्वदधीना हि सिद्धयः।

१४९)    देवदत्तः विष्णुमित्रात् मासावरः

१५०)    जीवन्मुक्तः यः सः बन्धमुक्तः भवति ।

१५१)    न सुखप्रति संसारे ।

१५२)    विकारहेतौ सति ये बहिर्विकारं समासते ते यमिनः।  Those who remain unruffled even in the presence of temptations are the self restrained.

१५३)    दुहितरः मातृसदृश्यो जायन्ते, पुत्राश्च पितृसदृशा इति प्रायिकम् ।

१५४)    वणिजां प्रायेण वाक्कलहाः भवन्ति ।

१५५)    अपराह्णकृतं कार्यं दृष्ट्वा अधिकारी सन्तुष्टः।

१५६)    तिलमिश्रिताः तण्डुलाः श्राद्धे प्रयुज्यन्ते।

१५७)   आचारणश्लक्ष्णान् सर्वे इच्छन्ति।

१५८)   समुद्रमात्रं न सरो अस्ति किञ्चन ।

१५९)   विश्वनाथः सर्वान् रक्षति ।  विश्वेषां नाथः

१६०) घटेन वयं जलाहरणं कुर्मः।

१६१) देवदत्तः रामान्मासपूर्वः, विष्णुमित्रात्।

१६२) वणीजां प्रायेण वाक्कलहा भवन्ति नासिकलहाः।


समस्तपदं विलिख्य समासनाम, सूत्रञ्च निर्दिशत -

१)         भवते इयम् =

२)         बलिभिः पुष्टः =

३)         निसर्गेण निपुणः =

४)         वेदे पण्डितः =

५)         अहिना हतः =

६)         गुरुणा ईक्षिता =

७)         अन्यैः पुष्टाः =

८)         राज्यात् भ्रष्टः =

९)         कार्ये रतः =

१०)     पराभवात् भीतिः =

११)     गिरेः नदी =

१२)     नित्यं प्रहसितः =

१३)     आत्मनः संयमः =

१४)     गोभ्यः बलिः =

१५)     रणे संवितः =

१६)     सूर्येण ऊढः =

१७)     देवेन खातः =

१८)     मम पुस्तकम् =

१९)     गुहं निर्गतः =

२०)     सर्वेभ्यः इयम् =

२१)     खट्वाम् आरूढः =

२२)     त्वां श्रितः =

२३)     चौरैः हृतः =

२४)     संस्कृतस्य अध्यापकः =

२५)     तव अपेक्षा =

२६)     भवता श्रुतम् =

२७)     धर्मस्य क्षेत्रम् =

२८)     दन्तानां राजा =

२९)     कस्मै इदम् =

३०) मम पुत्रः

३१)     रोगात् मुक्तः =

३२)     देवेन खातः =

३३)     पाण्डवानाम् अनीकम् =

३४)     तव दासः =

३५)     ब्राह्मणानां याजकः =

३६)     देवानां पूजकः =

३७)     कूपं पतितः =

३८)     स्वस्य जनाः =

३९)     वृकात् भयम् =

४०)     दाने शौण्डः =

४१)     सुहृद्भ्यः अयम् =

४२)     गवे हितम् =

४३)     कुलस्य क्षयः =

४४)     व्यवहारे पटुः =

४५)     वनेऽन्तर् =

४६)     द्विजाय अयम् =

४७)     वृकात् त्रासः =

४८)     सर्वश्वेतः =

४९)     सर्वमहान् =

५०)     सुखात् आपेतः =

५१)     अक्षेषु कितवः

५२)     पित्रे सुखम् =

५३)     प्रसादात् पतितः =

५४)     पूर्वः कायस्य =

५५)     खट्वाम् आरूढः =

५६)     मूहूर्तं सुखम् =

५७)     वाचि पटुः=

५८)     गवां कृष्णा सम्पन्नक्षीरतमा =

५९)     भगवता गीता =

६०)     शास्त्रे निपुणः =

६१)     अस्मभ्यं भीतः =

६२)     युष्माकम् अपेक्षा =

६३)     युष्माभिः भुक्तम् =

६४)     वाक्निपुणः =

६५)     योगे रतः =

६६)     मम निवासः =

६७)     काव्ये कुशलः =

६८)     अक्षेषु शौण्डः =

६९)     धर्मे प्रवीणः =

७०)     धर्मात् च्युतः =

७१)     कार्ये कुशलः =

७२)     परशुना छिन्नवान् =

७३)     अस्माकं कर्तव्यम् =

७४)     मम कर्तव्यम् =

७५)     मनुष्याणां क्षत्रियः शूरतमः =

७६)     द्यूते कितवः =

७७)     आवयोः मैत्री =

७८)     वृक्षात् पतितः =

७९)     शास्त्रे धूर्तः =

८०)     योगे सिद्धः =

८१)     आतपे शुष्कः =

८२)     क्रियायां धूर्तः =

८३)     ग्रामाद् आगतः =

८४)     देवैश्वर्यम् =

८५)     स्थाल्यां पक्वः =

८६)     योगे सिद्धः =

८७)     शास्त्रे पण्डितः =

८८)     धर्मकुशलः =

८९)     चक्रमुक्तः =

९०)     दाने शौण्डः =


विग्रहवाक्यं विलिख्य समासनाम, सूत्रञ्च निर्दिशत -

९१)     लक्ष्मीच्छाया =

९२)     अहिहतः =

९३)     मरुद्गणः =

९४)     अर्धग्रामः =

९५)     मरुत्पतिः =

९६)     आस्यप्रत्यनः =

९७)     मनोगतम् =

९८)     स्वर्गपतितः =

९९)     राजेश्वरः =

१००)        सर्पिष्कुण्डिका =

१०१)        श्रीशः =

१०२)        सुखापेतः =

१०३)        गङ्गोदकम् =

१०४)        गवाग्रम् =

१०५)        वाङ्मुखम् =

१०६)        वाक्पारुष्यम् =

१०७)        नृत्यकुशलः =

१०८)        व्याघ्रभीतः =

१०९)        नखभिन्नः =

११०)        वृश्चिकात् भीतिः =

१११)        गवे सुखम् =

११२)        कल्पनापोढः =

११३)        विद्याविहीनः =

११४)        एकोन =

११५)        मद्भक्तः =

११६)        त्वद्भयम् =

११७)        दैत्यारिः =

११८)        तत्कृतम् =

११९)         भूतबलिः =

१२०)        लोकहितम् =

१२१)        वृक्षच्छाया =

१२२)        मध्वरिः =

१२३)        वृक्षमूलम् =

१२४)        वनगतः =

१२५)        गृहरक्षणम् =

१२६)        रणशूरः =

१२७)        परभृतः =

१२८)        अस्मिन्मित्रम् =

१२९)        युष्मद्धितम् =

१३०)        भवन्नाम =

१३१)        कष्टाश्रतः =

१३२)        स्वर्गगता =

१३३)        भार्यासदृशः =

१३४)        सुखप्रातः =

१३५)        श्वलेह्यः कूपः =

१३६)        गोशाला =

१३७)        वचःसन्तुष्टः =

१३८)        यूपदारुः =

१३९)        राष्ट्रहितम् =

१४०)        शूर्पनिष्पावः =

१४१)        काकबलि =

१४२)        परशुच्छिन्नः =

१४३)        सर्वोदयः =

१४४)        तत्रभुक्तम् =

१४५)        देवपरिचारकः =

१४६)        दुःखापन्नः =

१४७)        वैदेहीभर्ता =

१४८)        अभ्यासपटुः =

१४९)        रात्रिसङ्क्रान्ताः मूहूर्ताः =

१५०)        हिमलयङ्गतः =

१५१)        अहः सङ्क्रान्ताः मूहूर्ताः =

१५२)   मन्दिरगतः =

१५३)        तिलामिश्राः =

१५४)        सुवर्णहारः =

१५५)        पादोनं =

१५६)        माषविकलं =

१५७)        अर्धपिप्पली =

१५८)        आचारश्लक्ष्णः =

१५९)        किरिकाणः =

१६०)        ग्रामार्धः =

१६१)        बलिपुष्टः = ।

१६२)        चोरहतः =

१६३)        अर्थगतः =

१६४)        गोरक्षितम् =

१६५)        तक्रौदनम् =

१६६)        पाणिनिप्रणीतम् =

१६७)        कृच्छ्राल्लब्धः =

१६८)        प्रतिशब्ददीर्घः=

१६९)        अभ्यासपटुः =

१७०)        सख्यभिहितम् =

१७१)        द्व्यूनम् =

१७२)        मनोनिर्मितम् =

१७३)        धनवत्तुल्या =

१७४)        वचस्सन्तुष्टा/वचःसन्तुष्टा =

१७५)        घटमृत्तिका =

१७६)        मूर्तिपाषाणः =

१७७)        कुण्डलहिरण्यम् =

१७८)        सुखार्थः =

१७९)        सुखार्था =

१८०)        सुखार्थम् =

१८१)        भूतबलिः =

१८२)        जनहितम् =

१८३)        धेनुरक्षितम् =

१८४)        दैवरक्षितः =

१८५)        शर्करामिश्रितः =

१८६)         ऊर्ध्वदेहः =

१८७)         सितेतरः =

१८८)         कन्याप्रियः =

१८९)         ग्रामनिर्गतः =

१९०)         परश्शताः =

१९१)         परस्सहस्राः पुरुषाः =

१९२)         खड्गहतः =

१९३)         तत्पुरुषः =

१९४)         मासपूर्वः =

१९५)     राजधानी =

१९६)     सक्तुधानी =

१९७)     भिक्षामात्रम् =

१९८)     छात्रप्रियः =

१९९)     मषीधानी =

२००)     गोलवणम् =

२०१)     अश्वलवणम् =

२०२)     शोकवशः =

२०३)     विद्यायुक्तः =

२०४)     अश्वघासः =

२०५)     वासभवनम् =

२०६)     शयनागारम् =

२०७)     लीलाम्बुजम् =

२०८)     बुद्धिहीनः =

२०९)     गुरुसमः =

२१०)     पितृतुल्यः =

२११)     कृष्णाश्रितः =

२१२)     सुखापन्नः =

२१३)     कल्पनातीतः =

२१४)     यानप्राप्तः =

२१५)     गृहगतः =

२१६)     जलपतिता =

२१७)     देवमित्रम् =

२१८)     निद्राबाधितः =

२१९)     नृपहतः =

२२०)     मरणभयम् =

२२१)     वनवासः =

२२२)     जलक्रीडा =

२२३)     पादोदकम् =

२२४)     स्वर्गगतः =

२२५)     नृपवचनम् =

२२६)     नृपोक्तम् =

२२७)     हनुमत्सन्देशः =

२२८)     रामहतः =

२२९)     भगवद्गीता =

२३०)     मन्मनः =

२३१)     तत्पतिः =

२३२)     तद्रतः =

२३३)     अस्मद्वियोगः =

२३४)     युष्मन्मित्रम् =

२३५)     त्वत्कृते =

२३६)     त्वत्स्नेहः =

२३७)     राजशत्रवः =

२३८)     आत्मनः ज्ञानम् =

२३९)     रामरतः = रामे रतः

२४०)     तत्वचनम् =

२४१)     जनकतनयास्नानपुण्योदकम् =

२४२)     हस्तिनासा =

२४३)     राजराजः =

२४४)     तत्पुरुषः =

२४५)     सङ्कटात्यस्तः =

२४६)     शस्त्रच्छिन्नः =

२४७)     क्रममुक्तः =

२४८)     क्रोधसमः =

२४९)     वाक्कलहः =

२५०)     जलमिश्रितः =

२५१)     ज्ञानशून्यः=

२५२)     अग्निदग्धः =

२५३)     धनहीनः =

२५४)     आत्मपरित्यक्तः =

२५५)     बुद्धिरहितः =

२५६)     चौरहृतम् =

२५७)     सर्पदृष्टः =

२५८)     चन्दनयुक्तः =

२५९)     विद्यानिपुणः =

२६०)     कालिदासेन कृतम् =

२६१)     वस्त्रावृतः =

२६२)     मेघाच्छन्नः =

२६३)     गुरुदक्षिणा =

२६४)     कुण्डलहिरण्यम् =

२६५)     राजपुरुषागमनम् =

२६६)     जन्मजातः =

२६७)     देशभक्तिः =

२६८)     युद्धभूमिः =

२६९)     मदान्धः =

२७०)     अन्नदाता =

२७१)     नीतिनिपुणः =

२७२)     आत्मविश्वासः =

२७३)     पुरुषोत्तमः =

२७४)     पापविमुक्तः =

२७५)     रामकृतः =