9---anye-vyAkaraNa-sambaddha-viShayAH/15---sthAnivattvAtideshaH: Difference between revisions

Jump to navigation Jump to search
no edit summary
No edit summary
No edit summary
Line 30:
 
 
<big>'''३) न पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु''' ( १.१.५८) = पदस्य चरमावयवे द्विर्वचनादौ च कर्तव्ये परनिमित्तः अजादेशः न स्थानिवत् | पदान्तविधौ, द्विर्वचनविधौ, वरे-विधौ, यलोपविधौ, स्वरविधौ, सवर्णविधौ, अनुस्वारविधौ, दीर्घविधौ, जश्विधौ, चर्-विधौ च कर्तव्ये परनिमित्तकः अजादेशः स्थानिवत् न भवति |  विधिशब्दस्य प्रत्येकं सम्बन्धः अनेन न्यायेन - द्वन्द्वादौ, द्वन्द्वमध्ये, द्वन्द्वान्ते च श्रूयमाणं पदं प्रत्येकम् अभिसम्बध्यते इति | अस्य न्यायस्य अर्थः - द्वन्द्वसमासस्य अन्ते यस्य पदस्य श्रवणं, तस्य पदस्य द्वन्द्वसमासे प्रत्येकं पदेन सह सम्बन्धः भवति इति | अतः एव विधिशब्दस्य द्वन्द्वसमासे प्रत्येकं पदेन सह सम्बन्धः इति कृत्वा पदान्तविधिः, द्विर्वचनविधिः, वरेविधिः, यलोपविधिः, स्वरविधिः, सवर्णविधिः, अनुस्वारविधिः, दीर्घविधिः, जश्विधिः, चर्-विधिः इति स्वीक्रियते |  इदं स्थानिवद्भावनिषेधकं सूत्रम् अस्ति | अर्थात् '''अचः परस्मिन् पूर्वविधौ''' (१.१.५७) इत्यस्य निषेधकं सूत्रमिदम् | पदस्यान्तः पदान्तः, षष्ठीतत्पुरुषः | पदान्तः इत्यत्र अन्तः इति शब्दः चरमः, अन्तिमः इत्यर्थे स्वीकृतः | पदान्तः अन्त्यवर्णस्य बोधकः इत्यर्थः | द्वयोर्वचनं द्विर्वचनम् | यस्य लोपो यलोपः | निपातनात् वरे इत्यत्र विभक्त्यलोपः | पदान्तश्च द्विर्वचनं च वरे च यलोपश्च स्वरश्च सवर्णश्च अनुस्वारश्च दीर्घश्च जश्च चर्च तेषामितरेतरयोगद्वन्द्वः, पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वरदीर्घजश्चरः, तेषां विधयः पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधयस्तेषु, पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु अनेकसमासगर्भषष्ठीतत्पुरुषः। न इत्यव्ययम् | पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु सप्तमीबहुवचनान्तम् | '''स्थानिवदादेशोऽनल्विधौ''' (१.१.५६) इत्यस्मात् सूत्रात् स्थानिवत्, आदेशः इत्यनयोः अनुवृत्तिः | '''अचः परस्मिन् पूर्वविधौ''' (१.१.५७) इत्यस्मात् सम्पूर्णसूत्रस्य अनुवृत्तिः | वरे इत्यस्य अचः आदेशः इत्यनेन साक्षात् सम्बन्धः वर्तते |  अनुवृत्ति-सहित-सूत्रं—'''पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु अचः परस्मिन् पूर्वविधौ''' '''स्थानिवद् आदेशः न''' |</big>
 
 
 
<big>उदाहरणानि –</big>
 
 
 
Line 45 ⟶ 42:
 
<big>'''कानि सन्ति''' → किम् इति शब्दस्य प्रथमाविभक्तौ बहुवचने कानि इति पदं सिद्ध्यति | अस् इति धातुतः लटि प्रथमपुरुषे बहुवचने झि इति तिङ्प्रत्ययं योजयामः लटि प्रथमपुरुषे बहुवचने | झि इति प्रत्ययस्य स्थाने '''झोन्तः''' (७.१.३) इत्यनेन अन्त् इति आदेशः भवति →</big> <big>कानि + अस् + अन्ति</big> <big>इति भवति |</big>
 
 
<big>कानि + अस् + अन्ति → अधुना '''श्नसोरल्लोपः''' (६.४.१११) इत्यनेन अस् धातोः अकारस्य लोपः भवति किति ङिति सार्वधातुकेसार्वधातुकप्रत्यये परे → कानि + अस् + अन्ति → अत्र झि इति अपित् -प्रत्यये परे अस् धातोः अकारस्य लोपः जायते | कानि + स् + अन्ति इति भवति |</big>
 
<big>कानि + अस् + अन्ति → अधुना '''श्नसोरल्लोपः''' (६.४.१११) इत्यनेन अस् धातोः अकारस्य लोपः भवति किति ङिति सार्वधातुके परे → कानि + अस् + अन्ति → अत्र झि इति अपित् -प्रत्यये परे अस् धातोः अकारस्य लोपः जायते | कानि + स् + अन्ति इति भवति |</big>
 
<big>कानि + स् + अन्ति → अस्यां स्थितौ '''कानि सन्ति''' इति रूपं सिद्धयति | किन्तु अत्र '''अचः परस्मिन्‌ पूर्वविधौ''' (१.१.५७) इत्यनेन पूर्वविधौ कर्तव्ये परनिमित्तकः अजादेशः स्थानिवद्भवति, | अत्र अस् इत्यत्र अकारस्य स्थाने आदेशः जातः इत्यतः सः आदेशः अजादेशः | सः अजादेशः परनिमित्तकः यतोहि अकारस्य लोपः जातः अपित्प्रत्ययस्य कारणेन | इदानीं पूर्वविधिः कः इति चेत् परनिमित्तकस्य अजादेशस्य स्थानिवद्भावः क्रियते चेत् इको यणचि इति सूत्रं प्रसक्तं भवति | यण्सन्धिविधायकं सूत्रमेव पूर्वविधिः यतोहि तस्य कार्यं अजादेशात् पूर्वं जायते | अतः सन्ति इत्यत्र सकारात् पूर्वं यस्य अकारस्य लोपः जातः सः स्थानिवद्भवति पूर्वविधेः '''इको यणचि''' (६.१.७७)  इत्यस्य दृष्टया |</big>
 
<big>कानि + स् + अन्ति → अस्यां स्थितौ '''कानि सन्ति''' इति रूपं सिद्धयति | किन्तु अत्र '''अचः परस्मिन्‌ पूर्वविधौ''' (१.१.५७) इत्यनेन पूर्वविधौ कर्तव्ये परनिमित्तकः अजादेशः स्थानिवद्भवति, अतः सन्ति इत्यत्र सकारात् पूर्वं यस्य अकारस्य लोपः जातः सः स्थानिवद्भवति पूर्वविधेः '''इको यणचि''' (६.१.७७)  इत्यस्य दृष्टया |</big>
 
<big>कानि + अ स् + अन्ति इति दृश्यते '''इको यणचि''' (६.१.७७)  इति सूत्रस्य दृष्ट्या | अतः अत्र अकारः अस्तीव दृश्यते '''इको यणचि''' (६.१.७७)  इति पूर्वविधौ कर्तव्ये | "अस्" दृश्यते इति कारणतः अधुना कानि इति पदस्य अन्ते पदान्तविधिः जायते स्म '''इको यणचि''' (६.१.७७) इत्यनेन अचि परे | अतः कानि इति पदस्य अन्ते इकारस्य स्थाने यणादेशः भवति स्म, येन ''कान्य्सन्ति'' इति अनिष्टरूपं प्राप्यते स्म |</big>
 
 
<big>एतन्निवारणाय एव पदान्तविधिप्रसङ्गे '''न पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु''' (१.१.५८) इति सूत्रेण स्थानिवद्भावस्य निषेधः क्रियते येन इष्टरूपसिद्धिः जायते | अतः स्थानिवद्भावः न सिद्ध्यति | अनेन कारणेन '''इको यणचि''' (६.१.७७) इत्यनेन यणादेशः न भवति येन| इदानीं कानि + स् + अन्ति → इत्यत्र वर्णमेलनेन '''कानि सन्ति''' इति इष्टरूपं निष्पद्यते |</big>
 
<big>एतन्निवारणाय एव पदान्तविधिप्रसङ्गे '''न पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु''' (१.१.५८) इति सूत्रेण स्थानिवद्भावस्य निषेधः क्रियते येन इष्टरूपसिद्धिः जायते | अतः स्थानिवद्भावः न सिद्ध्यति | अनेन कारणेन '''इको यणचि''' (६.१.७७) इत्यनेन यणादेशः न भवति येन कानि + स् + अन्ति → इत्यत्र '''कानि सन्ति''' इति इष्टरूपं निष्पद्यते |</big>
 
<big>अस्माकं वशीं सुधा भगिनि, सुन्दररीत्या स्थानिवद्भावचिन्तनक्रमम् अस्मिन् चित्रे स्थापितवती</big> <big>–</big>
 
 
 
<big>अस्माकं वशीं सुधा भगिनि, सुन्दररीत्या स्थानिवद्भावचिन्तनक्रमम् अस्मिन् चित्रे स्थापितवती</big> <big>–</big>
 
[[File:स्थानिवद्भावचिन्तनक्रमः ४.png|border|center|frameless|891x891px|स्थानिवद्भावचिन्तनक्रमः]]
 
 
 
<big>एवमेव कौ स्तः इत्यत्रापि चिन्त्यम् | कौ + अस् + तस् |</big>
 
 
<big>'''श्नसोरल्लोपः''' (६.४.१११) = श्नम्‌-प्रत्ययस्य अपि च अस्‌-धातोः अकारस्य लोपो भवति किति ङिति सार्वधातुके परे | श्नश्च अस्‌ च तयोरितरेतरद्वन्द्वः श्नसौ | श्नसोः षष्ठ्यन्तम्‌, अल्लोपः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''अत उत्सार्वधातुके''' (६.४.११०) इत्यस्मात्‌ सार्वधातुके इत्यस्य अनुवृत्तिः; '''गमहनजनखनघसां लोपः क्ङित्यनङि''' (६.४.९८) इत्यस्मात्‌ क्ङिति इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''अङ्गस्य श्नसोः अल्लोपः सार्वधातुके क्ङिति''' |</big>
 
<big>२)           '''द्वित्वविधिः''' = द्वित्वविधौ कर्तव्ये परनिमित्तकः अजादेशः स्थानिवद्भावं न प्राप्नोति |</big>
 
<big>२)           '''द्वित्वविधिः''' = द्वित्वविधौ कर्तव्ये परनिमित्तकः अजादेशः स्थानिवद्भावं न प्राप्नोति |</big>
<big>यथा –</big>
 
<big>यथा –</big>
 
 
<big>सुधी + उपास्यः = सुधीभिः उपास्यः इति तृतीयातत्पुरुषसमासः |</big>
 
 
<big>सुध्य् + उपास्य → '''इको यणचि''' (६.१.७७) इत्यनेन यणादेशः अचि परे |</big>
 
 
<big>सुध्य् + उपास्य → अस्यां स्थितौ '''अनचि च''' (८.४.४७) इत्यनेन द्वित्वं प्राप्तम् अस्ति, येन अचः परस्य यरो द्वे वा स्तः न त्वचि | अतः सुध्ध्य् + उपास्य इति भवति स्म | अर्थात् सुध्य् इत्यत्र उकारस्य अनन्तरं यर्-वर्णस्य धकारस्य द्वित्वम् अनचि परे भवति स्म '''अनचि च''' (८.४.४७) इत्यनेन सूत्रेण |</big>
 
<big>सुध्य् + उपास्य → अस्यां स्थितौ '''अनचि च''' (८.४.४७) इत्यनेन द्वित्वं प्राप्तम् अस्ति, अतः सुध्ध्य् + उपास्य इति भवति स्म | अर्थात् सुध्य् इत्यत्र उकारस्य अनन्तरं यर्-वर्णस्य धकारस्य द्वित्वम् अनचि परे भवति स्म '''अनचि च''' (८.४.४७) इत्यनेन सूत्रेण |</big>
 
<big>किन्तु '''अचः परस्मिन्‌ पूर्वविधौ''' (१.१.५७) इत्यनेन पूर्वविधौ कर्तव्ये परनिमित्तकः अजादेशः स्थानिवद्भवति | सुधी इत्यत्र यः यणादेशः जातः सः अजादेशः अस्ति यतोहि सः आदेशः अच्वर्णस्य स्थाने विहितः अस्ति | सः अजादेशः परनिमित्तकः अपि अस्ति यतोहि यणादेशस्य निमित्तं परे अस्ति, अर्थात् यः अच्वर्णः परः अस्ति | अतः सुध्य् इत्यत्र अन्त्यः यकारः अच्वर्णस्य स्थाने विहितः इति कृत्वा स्थानिवद्भवति, ईकारः इव दृश्यते '''अनचि च''' (८.४.४७) इति पूर्वविधौ कर्तव्ये | '''अनचि च''' (८.४.४७) इति सूत्रेण "सुधी" दृश्यते इति कारणतः द्वित्वकार्यं न भवति स्म यतोहि अधुना धकारस्य अनन्तरम् अच्-वर्णः दृश्यते न तु हल्वर्णः | अनेन कारणेन सुध्युपास्य इति एकमेव रूपं लभ्यते स्म | अत्र वैकल्पिकं रूपम् अपि अस्तिइष्यते, तस्य साधनार्थं द्वित्वविषये '''अचः परस्मिन्‌ पूर्वविधौ''' (१.१.५७) इत्यस्य निषेधकं सूत्रम् अपेक्षितम् |</big>
 
<big>किन्तु '''अचः परस्मिन्‌ पूर्वविधौ''' (१.१.५७) इत्यनेन पूर्वविधौ कर्तव्ये परनिमित्तकः अजादेशः स्थानिवद्भवति | अतः सुध्य् इत्यत्र अन्त्यः यकारः ईकारः इव दृश्यते '''अनचि च''' (८.४.४७) इति पूर्वविधौ कर्तव्ये | '''अनचि च''' (८.४.४७) इति सूत्रेण "सुधी" दृश्यते इति कारणतः द्वित्वकार्यं न भवति स्म यतोहि अधुना धकारस्य अनन्तरम् अच्-वर्णः दृश्यते न तु हल्वर्णः | अनेन कारणेन सुध्युपास्य इति एकमेव रूपं लभ्यते स्म | अत्र वैकल्पिकं रूपम् अपि अस्ति, तस्य साधनार्थं द्वित्वविषये '''अचः परस्मिन्‌ पूर्वविधौ''' (१.१.५७) इत्यस्य निषेधकं सूत्रम् अपेक्षितम् |</big>
 
<big>अतः '''अचः परस्मिन् पूर्वविधौ''' (१.१.५७) इत्यनेन यः स्थानिवद्भावः प्राप्तः अस्ति तस्य निषेधः क्रियते '''न पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु''' (१.१.५८) इति सूत्रेण द्वित्वप्रसङ्गे | अतः स्थानिवद्भावः न सिद्ध्यति | अनेन कारणेन '''अनचि च''' (८.४.४७) इत्यनेनइति सूत्रस्य कार्यं जायते यतोहि स्थानिवद्भावः न प्राप्यते | एवञ्च सुध्य् + उपास्य इत्यत्र उकारोत्तवर्ती यः यर्-वर्णः, धकारः दृश्यते, तस्य द्वित्वं क्रियते यकारः इति अनच्-वर्णे परे → सुध्ध्युपास्यः इति रूपं निष्पद्यते | आहत्य रूपद्वयं सिद्धयति - सुध्ध्युपास्यः, सुध्युपास्य इति |</big>
 
<big>अतः '''अचः परस्मिन् पूर्वविधौ''' (१.१.५७) इत्यनेन यः स्थानिवद्भावः प्राप्तः अस्ति तस्य निषेधः क्रियते '''न पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु''' (१.१.५८) इति सूत्रेण द्वित्वप्रसङ्गे | अतः स्थानिवद्भावः न सिद्ध्यति | अनेन कारणेन '''अनचि च''' (८.४.४७) इत्यनेन सुध्य् + उपास्य इत्यत्र उकारोत्तवर्ती यः यर्-वर्णः, धकारः दृश्यते, तस्य द्वित्वं क्रियते यकारः इति अनच्-वर्णे परे → सुध्ध्युपास्यः इति रूपं निष्पद्यते |</big>
 
 
<big>'''अनचि च''' (८.४.४७) = अचः परस्य यरो द्वे वा स्तः न त्वचि | न अच्‌, अनच्‌ नञ्तत्पुरुषः, तस्मिन्‌ अनचि | अनचि सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | '''यरोऽनुनासिकेऽनुनासिको वा''' (८.४.४५) इत्यस्मात्‌ यरः, वा इत्यनयोः अनुवृत्तिः | '''अचो रहाभ्यां द्वे''' (८.४.४६) इत्यस्मात्‌ अचः, द्वे इत्यस्य अनुवृत्तिः | '''तयोर्य्वावचि संहितायाम्‌''' (८.२.१०८) इत्यस्मात्‌ संहितायाम् इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''अचः यरः द्वे वा अनचि च संहितायाम्‌''' |</big>
 
 
 
<big>३)           '''वरे-विधौ''' = वरेविधौ परनिमित्तकः अजादेशः स्थानिवद्भावं न प्राप्नोति |</big>
Line 107 ⟶ 98:
<big>यथा –</big>
 
 
<big>या प्रापणे इति धातुतः यङ्प्रत्ययः विधीयते चेत् द्वित्वानन्तरं ''यायाय'' इति यङन्तधातुः सिद्धयति | यङन्तधातुः कथं निष्पन्नः इति अस्माकं प्रासङ्गिकविषयः नास्ति, अतःइत्यतः तस्य विषये न चिन्त्यम् | अधुना '''यश्च यङः''' (३.२.१७६) इत्यनेन सूत्रेण या प्रापणे, इत्यस्मात् धातोः यङन्तात् तच्छीलादिषु (स्वाभावे) कर्तृषु वरच् प्रत्ययः भवति | '''यायावरः''' इति रूपं सिद्धयति | यायावरः नाम यः पुनः पुनः अतिशयेन वा याति देशात् देशान्तरं गच्छति इति अर्थः|</big>
 
<big><u>यायावरः इति पदस्य प्रक्रियां पश्यामः</u> –</big>
 
 
<big>यायाय + वरच् → '''यश्च यङः''' (३.२.१७६) इत्यनेन सूत्रेण वरच्-प्रत्ययः विधीयते यङन्तधातुतः | वरच् इत्यत्र चकारस्य इत्संज्ञा, लोपश्च भवति → यायाय + वर इति भवति |</big>
 
 
Line 118 ⟶ 111:
 
 
<big>किन्तु अत्र '''अचः परस्मिन्‌ पूर्वविधौ''' (१.१.५७) इत्यनेन पूर्वविधौ कर्तव्ये परनिमित्तकः अजादेशः स्थानिवद्भवति |'''अतो लोपः''' (६.४.४८) इत्यनेन सूत्रेण यस्य अकारस्य लोपः जातः, सः परनिमित्तकः अजादेशः यतोहि तस्य निमित्तम् आर्धधातुकप्रत्ययः अस्ति | इदानीं पूर्वविधिः अस्ति '''लोपो व्योर्वलि (६.१.६५)''' इति सूत्रस्य कार्यम् | अतः यायाय् इत्यत्र अन्त्यः यकारः '''य''' इव दृश्यते, अर्थात् यायाय इति दृश्यते → अतः '''लोपो व्योर्वलि (६.१.६५)''' इत्यनेन सूत्रेण तु यायाय इति दृश्यते इति कारणेन यकारलोपः न भवति स्म | एवं सति यायावरः इति रूपम् अपि न लभ्यते, ''यायाय्वरः'' इति अनिष्टरूपापत्तिः जायते | तदर्थम् अत्र यथा पूर्वं चर्चितं पदान्तविधिप्रसङ्गे '''न पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु''' (१.१.५८) इति सूत्रेण स्थानिवद्भावस्य निषेधः क्रियते येन इष्टरूपसिद्धिः जायते | अतः स्थानिवद्भावः न सिद्ध्यति | अनेन कारणेन '''लोपो व्योर्वलि (६.१.६५)''' इति सूत्रस्य कार्यं जायते एव |</big>
<big>यायाय् + वर → अस्यां स्थितौ '''लोपो व्योर्वलि (६.१.६५)''' इत्यनेन यकार-लोपः भवति स्म वलि परे, अतः याया + वर इति भवति स्म |</big>
 
 
<big>अतः यायाय् + वर → अस्यां स्थितौ '''लोपो व्योर्वलि (६.१.६५)''' इत्यनेन यकार-लोपः भवति स्म वलि परे, अतः याया + वर इति भवति स्म |</big>
 
 
Line 126 ⟶ 122:
<big>अतः एव स्थानिवद्भावं निषेधयितुम् एकं सूत्रं कृतं पाणिनिना वरे लोपप्रसङ्गे | '''अचः परस्मिन् पूर्वविधौ''' (१.१.५७) इत्यनेन यः स्थानिवद्भावः प्राप्तः, तस्य निषेधः क्रियते '''न पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु''' (१.१.५८) इति सूत्रेण वरे प्रत्यये परे | अतः स्थानिवद्भावः न सिद्ध्यति | अनेन कारणेन '''लोपो व्योर्वलि (६.१.६५)''' इत्यनेन सूत्रेण तु यायाय् + वर इत्यत्र यकारस्य लोपः भवति वलि परे | अतः यायावरः इति रूपं निष्पद्यते |</big>
 
 
<big>४)           '''यलोप-विधिः''' = यलोपविधौ परनिमित्तकः अजादेशः स्थानिवद्भावं न प्राप्नोति |</big>
 
 
<big>यथा –</big>
 
 
<big>या प्रापणे इति धातुतः यङ्प्रत्ययः विधीयते चेत् द्वित्वानन्तरं ''यायाय'' इति यङन्तधातुः सिद्धयति | अधुना अस्मात् धातुतः क्तिच्-प्रत्ययः विधीयते '''क्तिच्क्तौ च संज्ञायाम्''' (३.३.१७४) इत्यनेन सूत्रेण | '''क्तिच्क्तौ च संज्ञायाम्''' (३.३.१७४) इत्यनेन सर्वेभ्यः धातुभ्यः क्तिच् क्तश्च स्यात् आशिषि संज्ञायाम् |</big>
 
 
 
<big> यायाय + ति → '''अतो लोपः''' (६.४.४८) इत्यनेन अदन्ताङ्गस्य ह्रस्व-अकारलोपो भवति आर्धधातुके प्रत्यये परे → यायाय् + ति इति भवति |</big>
 
 
 
Line 153 ⟶ 145:
 
<big>अग्रे याया +ति → '''आतो लोप इटि च''' ( ६.४.६४) इत्यनेन अजादौ आर्धधातुके क्ङिति, इटि च आकारान्तस्य अङ्गस्य लोपो भवति → याय् + ति इति भवति |</big>
 
 
 
Line 164 ⟶ 155:
<big>अतः अत्र '''अचः परस्मिन्‌ पूर्वविधौ''' (१.१.५७) इति सूत्रस्य कार्यं निषिध्यते यलोपप्रसङ्गे | '''अचः परस्मिन् पूर्वविधौ''' (१.१.५७) इत्यनेन यः स्थानिवद्भावः प्राप्तः, तस्य निषेधः क्रियते '''न पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु''' (१.१.५८) इति सूत्रेण यलोप विधौ | अतः स्थानिवद्भावः न सिद्ध्यति | अनेन कारणेन '''लोपो व्योर्वलि''' (६.१.६५) इत्यनेन सूत्रेण तु याय् +ति इत्यत्र यकारस्य लोपः भवति वलि परे | अतः '''यातिः''' इति रूपं निष्पद्यते सुबुत्पत्तेः अनन्तरम् |</big>
 
 
<big>५)           '''स्वरविधिः''' = स्वरविधौ परनिमित्तकः अजादेशः स्थानिवद्भावं न प्राप्नोति |</big>
Line 173 ⟶ 162:
 
 
<big>कृ इति धातुतः '''धातोः कर्मणः समानकर्तृकादिच्छायां वा''' (३.१.७) इत्यनेन सूत्रेण इच्छार्थे सन् इति प्रत्ययः विधीयते | धातोः द्वित्वम्, अभ्यासकार्याणि च कृत्वा चिकिर् + स इति भवति | अधुना '''हलि च''' (८.२.७७) इत्यनेन हलि च परे रेफवकारान्तस्य धातोरुपधाया इको दीर्घो भवति | अतः चिकीर् + स इति भवति | अधुना '''आदेशप्रत्यययोः''' (८.३.५९) इत्यनेन इण्‌-प्रत्याहारात्‌ कवर्गीयात्‌ च परे अपदान्तः आदेशरूपी प्रत्ययावयवो वा सकारः अस्ति चेत्‌, तस्य सकारस्य स्थाने षकारादेशो भवति | अतः चिकीर्+ ष इति भवति | चिकीर्ष इत्यस्य धातुसंज्ञा भवति '''सनाद्यन्ता धातवः'''( ३.१.३२) इत्यनेन सूत्रेण |</big>
 
 
<big>अग्रे ण्वुलन्तं रूपं साधयितुं चिकीर्ष इति धातुतः ण्वुल् प्रत्ययः विहितः भवति '''ण्वुल्तृचौ''' (३.१.१३३) इत्यनेन सूत्रेण |</big>
 
Line 195 ⟶ 182:
<big>परन्तु '''अचः परस्मिन् पूर्वविधौ''' (१.१.५७) इत्यनेन यः स्थानिवद्भावः प्राप्तः, तस्य निषेधः क्रियते '''न पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु''' (१.१.५८) इति सूत्रेण | अत्र लुप्तः अकारः स्थानिवद् न भवति, अतः चिकीर्ष + अक इत्यत्र ककारोत्तस्य ईकारस्य एव उदात्तत्वं विधीयते '''लिति''' ( ६.१.१९३) इत्यनेन |</big>
 
 
<big>६)           '''सवर्णविधिः''' = सवर्णविधौ परनिमित्तकः अजादेशः स्थानिवद्भावं न प्राप्नोति |</big>
 
 
 
<big>यथा –</big>
 
 
 
Line 245 ⟶ 228:
 
 
<big>७)           '''अनुस्वारविधिः''' = अनुस्वारविधौ परनिमित्तकः अजादेशः स्थानिवद्भावं न प्राप्नोति |</big>
 
 
<big>यथा –</big>
 
 
<big>शिषॢँ विश्लेषणे इति रुधादिगणीयः धातुः, तस्मात् लटि उत्तमपुरुषे एकवचने झि प्रत्ययः विधीयते → शिष् + लट् → शिष् + झि  → '''झोन्तः''' ( ७.१.३) इत्यनेन झ् इति प्रत्ययस्य स्थाने अन्त् इति आदेशः भवति → शिष् + अन्ति → '''रुधादिभ्यः श्नम्''' (३.१.७८) इत्यनेन श्नम्-प्रत्ययस्य विधानम् → शि न ष् + अन्ति → शि न् ष् + धि → '''श्नसोरल्लोपः''' (६.४.१११) इति  सूत्रेण श्नम् इति विकरणप्रत्ययस्य च 'अस्' धातोः च अङ्गस्य अकारस्य सार्वधातुके कित्, ङित् प्रत्यये परे लोपः भवति, अतः नकारोत्तरस्य अकारस्य लोपः भवति → शिन् ष् + अन्ति → '''नश्चापदान्तस्य झलि''' (८.३.२४) इति सूत्रेण अनुस्वारादेशः भवति स्म नकारस्य स्थाने झलि परे → किन्तु '''अचः परस्मिन्‌ पूर्वविधौ''' (१.१.५७) इत्यनेन पूर्वविधौ कर्तव्ये अजादेशः स्थानिवद्भवति, अतः अनुस्वारोत्तरवर्ती अकारः स्थानिवद् ( शिन् '''अ''' ष्+ अन्ति इव ) भवति स्म, अतः '''नश्चापदान्तस्य झलि''' (८.३.२४) इति सूत्रेण अनुस्वारादेशः नैव प्राप्यते यतोहि नकारस्य अनन्तरं झल् वर्णः न दृश्यते → परन्तु '''अचः परस्मिन् पूर्वविधौ''' (१.१.५७) इत्यनेन यः स्थानिवद्भावः प्राप्तः अस्ति तस्य निषेधः क्रियते '''न पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु''' (१.१.५८) इति सूत्रेण अनुस्वारविधौ | अतः अत्र अनुस्वारवर्णे कर्तव्ये अकारलोपः स्थानिवतद् न भवति → अतः '''नश्चापदान्तस्य झलि''' (८.३.२४) इति सूत्रेण अनुस्वारादेशः जायते → शिंष् + अन्ति →‌ शिंषन्ति इति रूपं सिद्धयति |</big>
 
 
<big>८)           ''' दीर्घविधिः''' = दीर्घविधौ परनिमित्तकः अजादेशः स्थानिवद्भावं न प्राप्नोति |</big>
 
 
<big>यथा –</big>
 
 
<big>प्रतिदिवन् इत्यस्मात् प्रातिपदिकात् तृतीयाविभक्तौ एकवचने टा इति प्रत्ययः विधीयते | अयं शब्दः दिव् इति धातुतः निष्पन्नः शब्दः | प्रति इति उपसर्गकपूर्वकः दिव् इति धातुतः '''कनिन् युवृषितक्षिराजिधन्विद्युप्रतिदिवः''' इति उणादिसूत्रेण कनिन् प्रत्ययः विधीयते चेत् प्रति+ दिव् + अन् इति भवति → प्रतिदिवन् इति प्रातिपदिकं लभ्यते |</big>
 
 
<big>प्रतिदिवन् + टा → प्रतिदिवन् + आ → अधुना '''अल्लोपोनः''' ( ६.४.१२४) इत्यनेन 'अन्' यस्य अन्ते तादृशस्य भसंज्ञकस्य अङ्गस्य उपधा-अकारस्य लोपः भवति  → प्रतिदिव् न् + आ → '''हलि च''' (८.२.७७) इत्यनेन हलि च परे रेफवकारान्तस्य धातोरुपधाया इको दीर्घो भवति स्म येन प्रतिदिव् न् + आ इत्यत्र वकारात् पूर्वम् इकारस्य दीर्घादेशः भवति स्म येन प्रतिदीव् न् + आ इति भवति स्मा | किन्तु '''अचः परस्मिन्‌ पूर्वविधौ''' (१.१.५७) इत्यनेन पूर्वविधौ कर्तव्ये अजादेशः स्थानिवद्भवति, अतः वकारोत्तरवर्ती अकारः स्थानिवद् ( प्रतिदिव् अ न् + आ इव ) भवति स्म, अतः '''हलि च''' (८.२.७७) इत्यनेन दीर्घादेशः न प्राप्यते यतोहि वकारान्तात् धातोः अनन्तरं हल्वर्णः नास्ति अपि तु अकारः अस्ति → परन्तु '''अचः परस्मिन् पूर्वविधौ''' (१.१.५७) इत्यनेन यः स्थानिवद्भावः प्राप्तः अस्ति तस्य निषेधः क्रियते '''न पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु''' (१.१.५८) इति सूत्रेण दीर्घविधौ | अत्र दीर्घविधौ कर्तव्ये अकारलोपः स्थानिवतद् न भवति, अतः '''हलि च''' (८.२.७७) इत्यनेन दीर्घादेशः प्राप्यते येन '''प्रतिदीव्ना''' इति रूपं सिद्धयति | एवमेव चतुर्थीविभक्तौ प्रतिदीव्ने, प्रतिदीव्नः इत्यादीनि रूपाणि प्राप्यन्ते |</big>
 
 
<big>९)           '''जश्त्वविधिः''' = जश्-विधौ परनिमित्तकः अजादेशः स्थानिवद्भावं न प्राप्नोति |</big>
Line 278 ⟶ 255:
 
 
<big>अदँ भक्षणे इति अदादिगणीयः धातुतः '''स्त्रियां क्तिन्''' (३.३.९४) इति सूत्रेण क्तिन्  प्रत्ययः भावार्थे विधीयते चेत् → अद् + क्तिन् इति भवति  → अधुना '''बहुलं छन्दसि''' (२.४.३९) इति सूत्रेण छन्दसि विषये अद् धातोः स्थाने घसॢँ-आदेशः भवति → घसॢ + ति → घस् + ति</big> <big>→ '''घसिभसोर्हलि च''' (६.४.१००) इति सूत्रेण घसि, भस इत्येतयोः छन्दसि उपधायाः लोपो भवति हलादौ अजादौ च कित् ङित् प्रत्यये परतः → घस् + ति इत्यत्र  घकारोत्तरस्य अकारस्य लोपः भवति → घ् स् + ति इति भवति  → अधुना '''झलो झलि''' (८.२.२६) इति सूत्रेण झलः उत्तरस्य सकारस्य झलि परतः लोपो भवति → घ् स् + ति → अत्र सकारस्य लोपः भवति → घ् + ति → अधुना '''झषस्तथोर्धोऽधः''' (८.२.४०) इति सूत्रेण धा-धातुं विहाय अन्येषाम् धातूनाम् विषये झष्-वर्णात् परस्य तकारस्य थकारस्य च धकारः भवति | अतः घ् + ति इत्यत्र  तकारस्य स्थाने धकारादेशो भवति → घ् + धि इति भवति | '''अचः परस्मिन्‌ पूर्वविधौ''' (१.१.५७) इत्यनेन पूर्वविधौ कर्तव्ये अजादेशः स्थानिवद्भवति, अतः घकारोत्तरवर्ती अकारः स्थानिवद्भवति स्म, अतः घ + ति इतिवत् दृश्यते येन '''झलां जश् झशि''' (८.४.५३) इति सूत्रेण जश्त्वं न प्राप्यते स्म → किन्तु '''अचः परस्मिन् पूर्वविधौ''' (१.१.५७) इत्यनेन यः स्थानिवद्भावः प्राप्तः अस्ति तस्य निषेधः क्रियते '''न पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु''' (१.१.५८) इति सूत्रेण जश्त्वविधौ | अत्र जश्त्वविधौ कर्तव्ये अकारलोपः स्थानिवतद् न भवति, अतः</big> <big>घ् + धि इत्यत्र '''झलां जश् झशि''' (८.४.५३) इति सूत्रेण घकारस्य जश्त्वे गकारं कृत्वा ग् + धि → ‌ग्धि इति रूपं लभ्यते |</big>
 
 
<big>१०)       '''चर् -विधिः''' = चर्-विधौ परनिमित्तकः अजादेशः स्थानिवद्भावं न प्राप्नोति |</big>
 
 
<big>यथा –</big>
 
 
<big>अद भक्षणे इति धातुतः लिट्लकारे प्रथमपुरुषे द्विवचने तस् इति प्रत्ययः विहितः चेत्, तदा '''परस्मैपदानां णलतुसुस्थलथुसणल्वमाः''' (३.४.८२) इति सूत्रेण तस्-प्रत्ययस्य स्थाने अतुस्-आदेशः भवति → ‌अद् + अतुस् → ‌'''लिट्यन्यतरस्याम्''' (२.४.४०) इति सूत्रेण लिटि परतः अद् धातोः घस्लृ इति आदेशो भवति विकल्पेन → घस् + अतुस् → '''लिटि धातोरनभ्यासस्य''' (६.१.८) इति सूत्रेण द्वित्वं जायते → घस् घस् + अतुस् → अभ्यासकार्याणि भूत्वा जघस् + अतुस् इति भवति |</big>
 
<big>जघस् + अतुस् → '''गमहनजनखनघसां लोपः क्ङित्यनङि''' (६.४.९८) इति सूत्रेण गम्, हन्, जन्, खन्, घस् इत्येतेषां धातूनाम् उपधावर्णस्य अजादौ कित्, ङित् प्रत्यये परे लोपः भवति →  अतः जघस् + अतुस् इत्यत्र घकारोत्तरस्य अकारस्य लोपः भूत्वा जघ् स् + अतुस् इति भवति → '''शासिवसिघसीनां च''' (८.३.६०)  इति सूत्रेण इण्कोः परस्य शास्, वस्, घस् इत्येतेषां धातूनाम् अपदान्तसकारस्य षकारादेशः भवति, अतः जघ् स् + अतुस् इत्यत्र घकारः कवर्गीयवर्णः , तस्य अनन्तरं सकारस्य स्थाने षकारादेशः भवति → जघ् ष् + अतुस् → अधुना '''खरि च''' ( ८.४.५५) इत्यनेन चर्वत्वं प्राप्तम् अस्ति येन घकारस्य स्थाने ककारादेशः भवेत् परन्तु '''अचः परस्मिन्‌ पूर्वविधौ''' ( १.१.५७) इत्यनेन पूर्वविधौ कर्तव्ये अजादेशः स्थानिवद्भवति, अतः घकारोत्तरवर्ती अकारः स्थानिवद्भवति स्म, अतः जघ ष् + अतुस् इतिवत् दृश्यते येन '''खरि च''' ( ८.४.५५) इति सूत्रेण चर्त्वं न प्राप्यते स्म → किन्तु '''अचः परस्मिन् पूर्वविधौ''' (१.१.५७) इत्यनेन यः स्थानिवद्भावः प्राप्तः अस्ति तस्य निषेधः क्रियते '''न पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु''' (१.१.५८) इति सूत्रेण चर् -विधौ | अत्र चर्त्वविधौ कर्तव्ये अकारलोपः स्थानिवतद् न भवति, अतः</big> <big>जघ् ष् + अतुस् इत्यत्र '''खरि च''' (८.४.५५) इति सूत्रेण घकारस्य चर्त्वे ककारं कृत्वा जक् ष् + अतुस् → जक्षतुस् → रुत्वविसर्गौ कृत्वा '''जक्षतुः''' इति रूपं लभ्यते |</big>
 
<big>जघस् + अतुस् → '''गमहनजनखनघसां लोपः क्ङित्यनङि''' (६.४.९८) इति सूत्रेण गम्, हन्, जन्, खन्, घस् इत्येतेषां धातूनाम् उपधावर्णस्य अजादौ कित्, ङित् प्रत्यये परे लोपः भवति →  अतः जघस् + अतुस् इत्यत्र घकारोत्तरस्य अकारस्य लोपः भूत्वा जघ् स् + अतुस् इति भवति → '''शासिवसिघसीनां च''' (८.३.६०)  इति सूत्रेण इण्कोः परस्य शास्, वस्, घस् इत्येतेषां धातूनाम् अपदान्तसकारस्य षकारादेशः भवति, अतः जघ् स् + अतुस् इत्यत्र घकारः कवर्गीयवर्णः , तस्य अनन्तरं सकारस्य स्थाने षकारादेशः भवति → जघ् ष् + अतुस् → अधुना '''खरि च''' ( ८.४.५५) इत्यनेन चर्वत्वं प्राप्तम् अस्ति येन घकारस्य स्थाने ककारादेशः भवेत् परन्तु '''अचः परस्मिन्‌ पूर्वविधौ''' ( १.१.५७) इत्यनेन पूर्वविधौ कर्तव्ये अजादेशः स्थानिवद्भवति, अतः घकारोत्तरवर्ती अकारः स्थानिवद्भवति स्म, अतः जघ ष् + अतुस् इतिवत् दृश्यते येन '''खरि च''' ( ८.४.५५) इति सूत्रेण चर्त्वं न प्राप्यते स्म → किन्तु '''अचः परस्मिन् पूर्वविधौ''' (१.१.५७) इत्यनेन यः स्थानिवद्भावः प्राप्तः अस्ति तस्य निषेधः क्रियते '''न पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु''' (१.१.५८) इति सूत्रेण चर् -विधौ | अत्र चर्त्वविधौ कर्तव्ये अकारलोपः स्थानिवतद् न भवति, अतः</big> <big>जघ् ष् + अतुस् इत्यत्र '''खरि च''' (८.४.५५) इति सूत्रेण घकारस्य चर्त्वे ककारं कृत्वा जक् ष् + अतुस् → जक्षतुस् → रुत्वविसर्गौ कृत्वा '''जक्षतुः''' इति रूपं लभ्यते |</big>
 
 
<big>'''४) द्विर्वचनेऽचि''' (१.१.५९) = धातोः द्वित्वस्य निमित्तम् अजादिः प्रत्ययः अस्ति चेत्, तस्मिन् प्रत्यये परे द्वित्वे कर्तव्ये अजादेशः न भवति | यदि प्रक्रियायाम् अजादेशः तथा च अजादिनिमित्तकं  द्वित्वं द्वयमपि युगपत् प्राप्तं तर्हि आदौ द्वित्वकार्यं कृत्वा, तदनन्तरमेव अजादेशः कर्तव्यः, अतः एव अचः आदेशः न स्याद् द्वित्वे कर्तव्ये इति उक्तं कौमुदीकारेण | यावद् द्वित्वम् न कृतं तावत् अजादेशः अपि न करणीयः, परन्तु द्वित्वं क्रियते चेत् अग्रिमसोपाने एव अजादेशस्य प्रसक्तिः चेत्  करणीया | द्विरुच्यते अस्मिन् इति द्विर्वचनम्, अधिकरणे ल्युट् प्रत्ययः | तस्मिन् द्विर्वचने | '''अचः परस्मिन् पूर्वविधौ''' (१.१.५७) इत्यस्मात् अचः इत्यस्य अनुवृत्तिः  | '''स्थानिवदादेशोऽनल्विधौ''' ( १.१.५६)  इत्यस्मात् आदेशः इत्यस्य अनुवृत्तिः | '''न पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु''' ( १.१.५८) इत्यस्मात् सूत्रात्  न इत्यस्य अनुवृत्तिः | प्रकृतसूत्रे अचि इति पदं द्विर्वचने इत्यस्य विशेषणम् अस्ति | अनुवृत्ति-सहित-सूत्रं— '''अचः आदेशः न अचि द्विर्वचने''' |</big>
 
 
<big>प्रकृतसूत्रेण यस्य द्वित्वस्य विषये उक्तं तत्तु षष्ठाध्यायस्य प्रथमपादे यानि सूत्राणि उक्तानि द्वित्वस्य प्रसङ्गे तेषां विषये उक्तम् अस्ति | अर्थात् प्रकृतसूत्रेण तु धातोः द्वित्वस्य विषये उक्तम् अस्ति, एतत् तु अङ्गकार्यम् अस्ति |</big>
 
 
<big>'''न पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु''' (१.१.५८) इति सूत्रेण यत् द्वित्वम् उक्तं तत्तु अष्टमाध्याये द्वित्वस्य कृते यानि सूत्राणि उक्तानि तेषां प्रसङ्गे भवति | इदं द्वित्वं तु अल्विधिः अस्ति | अर्थात् वर्णनिमित्तककार्यम् अस्ति | यथा '''अनचि च''' (८.४.४७) इति सूत्रेण उक्तं द्वित्वकार्यम् |</big>
 
 
 
Line 308 ⟶ 282:
 
 
<big>पा-धातुतः लिट्लकारे प्रथमपुरुषद्विवचने तस् इति प्रत्ययः विधीयते आदौ | अनन्तरं '''परस्मैपदानां णलतुसुस्थलथुसणल्वमाः''' (३.४.८२) इति सूत्रेण तस्-प्रत्ययस्य स्थाने अतुस्-आदेशः भवति → ‌पा + अतुस् → अत्र युगपत् कार्यद्वयस्य प्रसङ्गः भवति - '''आतो लोप इटि च''' (६.४.६४) इत्यनेन  अजादौ किति ङिति आर्धधातुकप्रत्यये परे पा-इत्यस्य स्थाने आकारलोपः नाम अजादेशः, तथा च  '''लिटि धातोरनभ्यासस्य''' (६.१.८) इति सूत्रेण अतुस् इति प्रत्ययं निमित्तीकृत्य धातोः द्वित्वम्, अर्थात् अजादिनिमित्तकं द्वित्वम्  | एतयोः कार्ययोः मध्ये आकारलोपः नित्यकार्यम् अस्ति यतोहि द्वित्वे कृते अकृते आकारलोपः जायते एव | किन्तु प्रथमम् आकारलोपः क्रियते तत्पश्चात् तु द्वित्वं न सिद्ध्यति अजभावात् | किन्तु अत्र '''द्विर्वचनेऽचि''' (१.१.५९) इत्यनेन धातोः द्वित्वस्य निमित्तम् अजादिः प्रत्ययः अस्ति चेत्, तस्मिन् प्रत्यये परे द्वित्वे कर्तव्ये अजादेशः न भवति |  अर्थात् आदौ द्वित्वमेव करणीयं, तत्पश्चात् एव आकारलोपः क्रियते | अतः आदौ द्वित्वं कृत्वा पा पा + अतुस् इति सिद्धे ततः आकारलोपः करणीयः '''आतो लोप इटि च''' (६.४.६४) इत्यनेन   |</big>
 
 
 
<big>प्रक्रिया अधो लिखिता वर्तते  —</big>
 
 
 
Line 320 ⟶ 291:
 
 
<big>स्मर्तव्यं यत् '''द्विर्वचनेऽचि''' (१.१.५९) इति सूत्रस्य अर्थः कौमुदीकारस्य मतातुनासरम् अस्माभिः ज्ञातः उपर्युक्तायां प्रक्रियायाम् | काशिकारस्य मतानुसारम् अस्य सूत्रस्य अर्थः भिन्नरीत्या स्वीकृतः अस्ति इति ज्ञातव्यम् |</big>
 
 
<big>काशिकारस्य मतानुसारं '''द्विर्वचनेऽचि''' (१.१.५९) इति सूत्रस्य अर्थः एवम् अस्ति –</big>
 
 
 
<big>अच्-वर्णस्य स्थाने जायमानः आदेशः अजादिनिमित्ते द्वित्वे कर्तव्ये स्थानिवद् भवति | अर्थात् प्रक्रियायां यदि अजादेशः तथा च अजादिनिमित्तकं द्वित्वं द्वयमपि युगपत् प्राप्तं तर्हि आदौ अजादेशं कृत्वा, तत्पश्चात् अयम् अजादेशः स्थानिवद् भवति द्वित्वकार्यस्य कृते ‌|</big>
 
 
 
<big>काशिकारस्य मतानुसारं प्रक्रिया एवं भवति पा धातोः लिट् -लकारे प्रथमपुरुषे द्विवचने –</big>
 
 
<big>पा + लिट् →  पा + तस् → '''परस्मैपदानां णलतुसुस्थलथुसणल्वमाः''' (३.४.८२) इति सूत्रेण प्रथमपुरुषद्विवचनस्य तस् स्थाने अतुस् इति आदेशः भवति → पा + अतुस्  →  आदौ  '''आतो लोप इटि च''' (६.४.६४) इत्यनेन आकारलोपः नाम अजादेशः कर्तव्यः यद्यपि अच्‌ -निमित्तकं द्वित्वम् अपि प्राप्तम् अस्ति '''लिटि धातोरनभ्यासस्य''' (६.१.८) इति सूत्रेण →  प् + अतुस् → अधुना आकारलोपे कृते अपि अतुस् इति अजादिप्रत्यये परे द्वित्वे कर्तव्ये लुप्तः आकारः स्थानिवद् भवति '''द्विर्वचनेऽचि''' (१.१.५९) इति सूत्रेण |  यदि अत्र स्थानिवद्भावः न स्वीक्रियते तर्हि प् + अतुस् इति स्थितौ धातौ एकः अपि अच् वर्णः नास्ति इत्यतः द्वित्वमेव न सम्भवति  | एकाच्-प्रकृतेः एव द्वित्वं सम्भवति यतोहि '''एकाचो द्वे प्रथमस्य''' ( ६.१.१) इति सूत्रेण द्वित्वं धातोः प्रथमस्य एकाच्-अवयवस्य भवति | अतः अजादेशानन्तरं स्थानिवद्भावं स्वीकृत्य, अच्-निमित्तकं द्वित्वं जायते '''लिटि धातोरनभ्यासस्य''' (६.१.८) इति सूत्रेण → प् + आ+  अतुस् इतिवत् दृश्यते '''लिटि धातोरनभ्यासस्य''' (६.१.८) इति सूत्रस्य द्वित्वार्थम्, अतः द्वित्वं जायते   → पा प् + अतुस् इति भवति | अग्रे अभ्यासस्य ह्रस्वत्वं  '''ह्रस्वः''' (७.४.५९) इति सूत्रेण कृत्वा पप् + अतुस् → '''ससजुषो रुः''' (८.२.६६), '''खरवसानयोर्विसर्जनीयः''' (८.३.१५) इति विसर्गः → पपतुः इति रूपं सिद्धयति |</big>
 
 
 
page_and_link_managers, Administrators
5,256

edits

Cookies help us deliver our services. By using our services, you agree to our use of cookies.

Navigation menu