9---anye-vyAkaraNa-sambaddha-viShayAH/15---sthAnivattvAtideshaH: Difference between revisions

Jump to navigation Jump to search
no edit summary
No edit summary
No edit summary
Line 84:
 
 
<big>किन्तु '''अचः परस्मिन्‌ पूर्वविधौ''' (१.१.५७) इत्यनेन पूर्वविधौ कर्तव्ये परनिमित्तकः अजादेशः स्थानिवद्भवति | सुधी इत्यत्र यः यणादेशः जातः सः अजादेशः अस्ति यतोहि सः आदेशः अच्वर्णस्य स्थाने विहितः अस्ति | सः अजादेशः परनिमित्तकः अपि अस्ति यतोहि यणादेशस्य निमित्तं परे अस्ति, | अर्थात् यः अच्वर्णः परः अस्ति सः एव निमित्तम् अस्ति द्वित्वस्य कृते | अतः सुध्य् इत्यत्र अन्त्यः यकारः अच्वर्णस्य स्थाने विहितः इति कृत्वा स्थानिवद्भवति, ईकारः इव दृश्यते '''अनचि च''' (८.४.४७) इति पूर्वविधौ कर्तव्ये | '''अनचि च''' (८.४.४७) इति सूत्रेण "सुधी" दृश्यते इति कारणतः द्वित्वकार्यं न भवति स्म यतोहि अधुना धकारस्य अनन्तरम् अच्-वर्णः दृश्यते न तु हल्वर्णः | अनेन कारणेन सुध्युपास्य इति एकमेव रूपं लभ्यते स्म | अत्र वैकल्पिकं रूपम् अपि इष्यते, तस्य साधनार्थं द्वित्वविषये '''अचः परस्मिन्‌ पूर्वविधौ''' (१.१.५७) इत्यस्य निषेधकं सूत्रम् अपेक्षितम् |</big>
 
 
<big>अतः '''अचः परस्मिन् पूर्वविधौ''' (१.१.५७) इत्यनेन यः स्थानिवद्भावः प्राप्तः अस्ति तस्य निषेधः क्रियते '''न पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु''' (१.१.५८) इति सूत्रेण द्वित्वप्रसङ्गे | अतः स्थानिवद्भावः न सिद्ध्यति | अनेन कारणेन '''अनचि च''' (८.४.४७) इति सूत्रस्य कार्यं जायते यतोहि स्थानिवद्भावः न प्राप्यते | एवञ्च सुध्य् + उपास्य इत्यत्र उकारोत्तवर्ती यः यर्-वर्णः, धकारः दृश्यते, तस्य द्वित्वं क्रियते यकारः इति अनच्-वर्णे परे → सुध्ध्युपास्यः इति रूपं निष्पद्यते | आहत्य रूपद्वयं सिद्धयति - सुध्ध्युपास्यः, सुध्युपास्य इति |</big>
 
<big>स्मर्तव्यं यत् '''अनचि च''' (८.४.४७) इत्यनेन द्वित्वकार्यं पदान्तविधिः नास्ति यतोहि द्वित्वकार्यं सुध्य् इति पदस्य मध्ये जायमानं कार्यम्, अतः पदान्तविधेः चिन्तनम् अत्र न कार्यम् |</big>
 
page_and_link_managers, Administrators
5,258

edits

Cookies help us deliver our services. By using our services, you agree to our use of cookies.

Navigation menu