9---anye-vyAkaraNa-sambaddha-viShayAH/15---sthAnivattvAtideshaH: Difference between revisions

Jump to navigation Jump to search
no edit summary
No edit summary
No edit summary
Line 89:
 
<big>अतः '''अचः परस्मिन् पूर्वविधौ''' (१.१.५७) इत्यनेन यः स्थानिवद्भावः प्राप्तः अस्ति तस्य निषेधः क्रियते '''न पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु''' (१.१.५८) इति सूत्रेण द्वित्वप्रसङ्गे | अतः स्थानिवद्भावः न सिद्ध्यति | अनेन कारणेन '''अनचि च''' (८.४.४७) इति सूत्रस्य कार्यं जायते यतोहि स्थानिवद्भावः न प्राप्यते | एवञ्च सुध्य् + उपास्य इत्यत्र उकारोत्तवर्ती यः यर्-वर्णः, धकारः दृश्यते, तस्य द्वित्वं क्रियते यकारः इति अनच्-वर्णे परे → सुध्ध्युपास्यः इति रूपं निष्पद्यते | आहत्य रूपद्वयं सिद्धयति - सुध्ध्युपास्यः, सुध्युपास्य इति |</big>
 
 
<big>स्मर्तव्यं यत् '''अनचि च''' (८.४.४७) इत्यनेन द्वित्वकार्यं पदान्तविधिः नास्ति यतोहि द्वित्वकार्यं सुध्य् इति पदस्य मध्ये जायमानं कार्यम्, अतः पदान्तविधेः चिन्तनम् अत्र न कार्यम् |</big>
 
<big>'''अनचि च''' (८.४.४७) = अचः परस्य यरो द्वे वा स्तः न त्वचि | न अच्‌, अनच्‌ नञ्तत्पुरुषः, तस्मिन्‌ अनचि | अनचि सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | '''यरोऽनुनासिकेऽनुनासिको वा''' (८.४.४५) इत्यस्मात्‌ यरः, वा इत्यनयोः अनुवृत्तिः | '''अचो रहाभ्यां द्वे''' (८.४.४६) इत्यस्मात्‌ अचः, द्वे इत्यस्य अनुवृत्तिः | '''तयोर्य्वावचि संहितायाम्‌''' (८.२.१०८) इत्यस्मात्‌ संहितायाम् इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''अचः यरः द्वे वा अनचि च संहितायाम्‌''' |</big>
 
page_and_link_managers, Administrators
5,256

edits

Cookies help us deliver our services. By using our services, you agree to our use of cookies.

Navigation menu