9---anye-vyAkaraNa-sambaddha-viShayAH/15---sthAnivattvAtideshaH: Difference between revisions

Jump to navigation Jump to search
no edit summary
No edit summary
No edit summary
Line 84:
 
 
<big>किन्तु '''अचः परस्मिन्‌ पूर्वविधौ''' (१.१.५७) इत्यनेन पूर्वविधौ कर्तव्ये परनिमित्तकः अजादेशः स्थानिवद्भवति | सुधी इत्यत्र यः यणादेशः जातः सः अजादेशः अस्ति यतोहि सः आदेशः अच्वर्णस्य स्थाने विहितः अस्ति | सः अजादेशः परनिमित्तकः अपि अस्ति यतोहि यणादेशस्य निमित्तं परे अस्ति | अर्थात् यः अच्वर्णः परः अस्ति सः एव निमित्तम् अस्ति द्वित्वस्य कृते | अतः सुध्य् इत्यत्र अन्त्यः यकारः अच्वर्णस्य स्थाने विहितः इति कृत्वा स्थानिवद्भवति, ईकारः इव दृश्यते '''अनचि च''' (८.४.४७) इति पूर्वविधौ कर्तव्ये | '''अनचि च''' (८.४.४७) इति सूत्रेण "सुधी" दृश्यते इति कारणतः द्वित्वकार्यं न भवति स्म यतोहि अधुना धकारस्य अनन्तरम् अच्-वर्णः दृश्यते न तु हल्वर्णः | अनेन कारणेन सुध्युपास्य इति एकमेव रूपं लभ्यते स्म | अत्र वैकल्पिकं रूपम् अपि इष्यते, तस्य साधनार्थं द्वित्वविषये '''अचः परस्मिन्‌ पूर्वविधौ''' (१.१.५७) इत्यस्य निषेधकं सूत्रम् अपेक्षितम् |</big>
 
 
<big>अतः '''अचः परस्मिन् पूर्वविधौ''' (१.१.५७) इत्यनेन यः स्थानिवद्भावः प्राप्तः अस्ति तस्य निषेधः क्रियते '''न पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु''' (१.१.५८) इति सूत्रेण द्वित्वप्रसङ्गे | अतः स्थानिवद्भावः न सिद्ध्यति | अनेन कारणेन '''अनचि च''' (८.४.४७) इति सूत्रस्य कार्यं जायते यतोहि स्थानिवद्भावः न प्राप्यते | एवञ्च सुध्य् + उपास्य इत्यत्र उकारोत्तवर्ती यः यर्-वर्णः, धकारः दृश्यते, तस्य द्वित्वं क्रियते यकारः इति अनच्-वर्णे परे → सुध्ध्युपास्यः इति रूपं निष्पद्यते | आहत्य रूपद्वयं सिद्धयति - सुध्ध्युपास्यः, सुध्युपास्य इति |</big>
Line 139 ⟶ 137:
 
 
<big>या प्रापणे इति धातुतः यङ्प्रत्ययः विधीयते चेत् द्वित्वानन्तरं ''यायाय'' इति यङन्तधातुः सिद्धयति | अधुना अस्मात् धातुतः क्तिच्-प्रत्ययः विधीयते '''क्तिच्क्तौ च संज्ञायाम्''' (३.३.१७४) इत्यनेन सूत्रेण | '''क्तिच्क्तौ च संज्ञायाम्''' (३.३.१७४) इत्यनेन सर्वेभ्यः धातुभ्यः क्तिच् क्तश्च स्यात् आशिषि संज्ञायाम् | क्तिच् इति प्रत्यये ति अवशिष्यते इत्संज्ञानन्तरम् |</big>
 
 
Line 148 ⟶ 146:
 
 
<big>किन्तु '''अचः परस्मिन्‌ पूर्वविधौ''' (१.१.५७) इत्यनेन पूर्वविधौ कर्तव्ये परनिमित्तकः अजादेशः स्थानिवद्भवति | '''अतो लोपः''' (६.४.४८) इत्यनेन सूत्रेण यस्य अकारस्य लोपः जातः, सः परनिमित्तकः अजादेशः यतोहि तस्य निमित्तम् आर्धधातुकप्रत्ययः अस्ति | इदानीं पूर्वविधिः अस्ति '''लोपो व्योर्वलि''' (६.१.६५) इति सूत्रस्य कार्यम् | अतः यायाय् + ति इत्यत्र अन्त्यः यकारः '''''य''''' इव दृश्यते स्थानिवद्भावेन | अर्थात् यायाय +ति इति दृश्यते '''लोपो व्योर्वलि''' (६.१.६५) इत्यस्य दृष्ट्या | अतः '''लोपो व्योर्वलि''' (६.१.६५) इत्यनेन सूत्रेण तु ''यायाय'' इति दृश्यते इति कारणेन यकारलोपः न भवति स्म | एवं चेत् इष्टरूपसिद्धिः न जायते |</big>
 
 
<big>अतः '''अचः परस्मिन् पूर्वविधौ''' (१.१.५७) इत्यनेन यः स्थानिवद्भावः प्राप्तः, तस्य निषेधः क्रियते '''न पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु''' (१.१.५८) इति सूत्रेण यलोप विधौयलोपविधौ | अतः स्थानिवद्भावः न सिद्ध्यति | अनेनइति कारणेनकृत्वा '''लोपो व्योर्वलि''' (६.१.६५) इत्यनेन सूत्रेण तु यायाय् + ति इत्यत्र यकारस्य लोपःलोपं भवतिकरोति वलि परे | याया + ति इति सिद्ध्यति |</big>
 
<big>अग्रे याया + ति → '''आतो लोप इटि च''' ( ६.४.६४) इत्यनेन अजादौ आर्धधातुके क्ङिति, इटि च आकारान्तस्य अङ्गस्य आकारस्य लोपो भवति → याय् + ति इति भवति | अत्रापि यङ्प्रत्ययस्य अकारस्य स्थानिवद्भावस्य विषये चिन्तनं कार्यं यथा पूर्वं वरेलोपप्रसङ्गे कृतम् |</big>
 
<big>याया + ति इत्यत्र पूर्वं प्रक्रियायाः आदौ ''यायाय'' इति यदा आसीत् तदा यङ्-प्रत्ययस्य अकारस्य लोपः जातः आसीत् '''अतो लोपः''' (६.४.४८) इत्यनेन सूत्रेण | तत्पश्चात् यङ्प्रत्ययस्य यकारस्य लोपः जातः '''लोपो व्योर्वलि''' (६.१.६५) इत्यनेन सूत्रेण | यङ्प्रत्ययस्य लुप्तस्य अकारस्य '''अचः परस्मिन् पूर्वविधौ''' (१.१.५७) इत्यनेन स्थानिवद्भावः स्वीक्रियते येन '''आतो लोप इटि च''' (६.४.६४) इत्यनेन आकारान्तस्य अङ्गस्य आकारस्य लोपः स्यात् अजादौ किति ङिति आर्धधातुकप्रत्यये परे | यङ्प्रत्ययः आर्धधातुकप्रत्ययः; इदानीम् अजादिः च जातः; अङ्गं च आकारान्तम् अस्ति इत्यतः '''आतो लोप इटि च''' (६.४.६४) इत्यनेन आकारान्तस्य अङ्गस्य आकारस्य लोपः स्यात् अजादौ ङिति आर्धधातुकप्रत्यये परे | याया + अ इत्यत्र अ इति यङ्प्रत्ययस्य भागः अस्ति | अधुना सः अकारः स्थानिवद्भावेन लब्धः | अर्थात् '''अचः परस्मिन् पूर्वविधौ''' (१.१.५७) इत्यनेन सूत्रेण स्थानिवद्भावस्य स्वीकारेण - याया + '''<u>अ</u>''' + ति इति दृश्येत '''आतो लोप इटि च''' (६.४.६४) इति सूत्रस्य दृष्ट्या, अतः तस्य कार्यं जायते | याय् + ति इति भवति |</big>
 
 
 
Line 163 ⟶ 164:
 
 
<big>अतः अत्र '''अचः परस्मिन्‌ पूर्वविधौ''' (१.१.५७) इति सूत्रस्य कार्यं निषिध्यते यलोपप्रसङ्गे | '''अचः परस्मिन् पूर्वविधौ''' (१.१.५७) इत्यनेन यः स्थानिवद्भावः प्राप्तः, तस्य निषेधः क्रियते '''न पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु''' (१.१.५८) इति सूत्रेण यलोप विधौयलोपविधौ | अतः स्थानिवद्भावः न सिद्ध्यति | अनेनइति कारणेनकृत्वा '''लोपो व्योर्वलि''' (६.१.६५) इत्यनेन सूत्रेण तु याय् + ति इत्यत्र यकारस्य लोपःलोपं भवतिकरोति वलि परे | अतः '''यातिः''' इति रूपं निष्पद्यते सुबुत्पत्तेः अनन्तरम् |</big>
 
Line 172 ⟶ 173:
 
<big>कृ इति धातुतः '''धातोः कर्मणः समानकर्तृकादिच्छायां वा''' (३.१.७) इत्यनेन सूत्रेण इच्छार्थे सन् इति प्रत्ययः विधीयते | धातोः द्वित्वम्, अभ्यासकार्याणि च कृत्वा चिकिर् + स इति भवति | अधुनाअग्रे '''हलि च''' (८.२.७७) इत्यनेन हलि च परे रेफवकारान्तस्य धातोरुपधाया इको दीर्घो भवति | अतः चिकीर् + स इति भवति | अधुना '''आदेशप्रत्यययोः''' (८.३.५९) इत्यनेन इण्‌-प्रत्याहारात्‌ कवर्गीयात्‌ च परे अपदान्तः आदेशरूपी प्रत्ययावयवो वा सकारः अस्ति चेत्‌, तस्य सकारस्य स्थाने षकारादेशो भवति | अतः चिकीर्+ ष इति भवति | चिकीर्ष इत्यस्य धातुसंज्ञा भवति '''सनाद्यन्ता धातवः'''( ३.१.३२) इत्यनेन सूत्रेण |</big>
 
Line 184 ⟶ 185:
 
 
<big>अधुना '''अचः परस्मिन्‌ पूर्वविधौ''' ( १.१.५७) इत्यनेन पूर्वविधौ कर्तव्ये परनिमित्तकः अजादेशः स्थानिवद्भवति | अतः चिकीर्ष् + अक इत्यत्र चिकीर्ष् इति भागस्य अन्तिमः वर्णः अकारवत् दृश्यते पूर्वविधेः '''लिति''' ( ६.१.१९३) इत्यस्य दृष्ट्या | '''लिति''' ( ६.१.१९३) इत्यनेन लित्-प्रत्यये परे प्रत्ययात् पूर्वमुपस्थितः स्वरः उदात्तः भवेत् | यस्मिन् प्रत्यये लकारः इत्संज्ञकः अस्ति, सः प्रत्ययः 'लित्' प्रत्ययः इति नाम्ना ज्ञायते | ण्वुल् इति प्रत्ययः लित् अस्ति यतोहि तस्मिन् लकारस्य इत्संज्ञा जाता |</big>
 
 
<big>'''लिति''' ( ६.१.१९३) इत्यस्य दृष्ट्या चिकीर्ष + अक इव दृश्यते स्थानिवद्भावेन, अतः अक इति लित्-प्रत्यये परे, प्रत्ययात् पूर्वमुपस्थितः स्वरः उदात्तः भवेत् |  अत्र स्वरविधौ कर्तव्ये यदि लुप्तः अकारः स्थानिवद् भवति स्म तर्हि इदम्चिकीर्ष् उदात्तत्वम्इत्यत्र तु अक इति प्रत्ययात् पूर्वम् स्वरः नास्ति इत्यतः अक इति प्रत्ययस्य अकारस्य विषयेएव प्रसज्येतउदातत्त्वं स्यात् | अर्थात्एवञ्चेत् चिकीर्षक इत्यत्र षकारोत्तरवर्ती अकारः उदात्तः भवति स्म |</big>
 
 
<big>परन्तु '''अचः परस्मिन् पूर्वविधौ''' (१.१.५७) इत्यनेन यः स्थानिवद्भावः प्राप्तः, तस्य निषेधः क्रियते '''न पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु''' (१.१.५८) इति सूत्रेण स्वरविधौ | अत्र लुप्तः अकारः स्थानिवद् न भवति, अतः चिकीर्षचिकीर्ष् + अक इत्यत्र ककारोत्तस्य ईकारस्य एव उदात्तत्वं विधीयते '''लिति''' ( ६.१.१९३) इत्यनेन यतोहि '''लिति''' ( ६.१.१९३) इति सूत्रं तु पूर्वम् उपस्थितस्य स्वरस्य एव उदातत्त्वं विधीयते | अत्र तु लिति प्रत्यये परे तु स्वरः अस्ति ककारोत्तरवर्ती ईकारः इति कृत्वा तस्यैव उदातत्त्वं जायते |</big>
 
page_and_link_managers, Administrators
5,258

edits

Cookies help us deliver our services. By using our services, you agree to our use of cookies.

Navigation menu