9---anye-vyAkaraNa-sambaddha-viShayAH/15---sthAnivattvAtideshaH: Difference between revisions

Jump to navigation Jump to search
no edit summary
No edit summary
No edit summary
Line 121:
 
 
<big>किन्तु  अत्र '''अचः परस्मिन्‌ पूर्वविधौ''' (१.१.५७) इत्यनेन पूर्वविधौ कर्तव्ये परनिमित्तकः अजादेशः स्थानिवद्भवति | '''अतो लोपः''' (६.४.४८) इत्यनेन सूत्रेण यस्य अकारस्य लोपः जातः, सः परनिमित्तकः अजादेशः यतोहि तस्य निमित्तम् आर्धधातुकप्रत्ययः अस्ति | इदानीं पूर्वविधिः अस्ति '''लोपो व्योर्वलि''' (६.१.६५) इति सूत्रस्य कार्यम् | अतः  याया'''य्''' इत्यत्र अन्त्यः यकारः '''<u>य</u>''' (अकारसहितः) इव दृश्यते '''लोपो व्योर्वलि''' (६.१.६५) इति सूत्रस्य दृष्ट्या | अर्थात् याया'''<u>य</u>''' + वर इति दृश्यते → अतः '''लोपो व्योर्वलि (६.१.६५)''' इत्यनेन सूत्रेण तु यायाय इति दृश्यते इति कारणेन यकारलोपः न भवति स्म | एवं सति यायावरः इति रूपम् अपि न लभ्यते, ''यायाय्वरः'' इति अनिष्टरूपापत्तिः जायते |</big>
 
<big>अतः एव स्थानिवद्भावं निषेधयितुम् एकं सूत्रं कृतं पाणिनिना यलोपप्रसङ्गे | अस्य यलोपविषये अग्रेऽपि पुनः पश्यामः | '''अचः परस्मिन् पूर्वविधौ''' (१.१.५७) इत्यनेन यः स्थानिवद्भावः प्राप्तः, तस्य निषेधः क्रियते '''न पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु''' (१.१.५८) इति सूत्रेण यलोपविषये | अतः स्थानिवद्भावः न सिद्ध्यति इत्यतः '''लोपो व्योर्वलि''' (६.१.६५) इत्यनेन सूत्रेण तु यायाय् + वर इत्येव दृश्यते इति कृत्वा यकारस्य लोपंलोपः करोतिजायते वलि परे | अतःइत्थं च याया +वर = यायावर इति प्रतिपदिकं सिद्धयति स्म | अत्र इतोपि अग्रे किञ्चित् चिन्तनीयं भवति |</big>
 
 
<big>याया + वर इत्यत्र पूर्वं प्रक्रियायाः आदौ ''यायाय'' इति यदा आसीत् तदा यङ्-प्रत्ययस्य अकारस्य लोपः जातः आसीत् '''अतो लोपः''' (६.४.४८) इत्यनेन सूत्रेण | तत्पश्चात् यङ्प्रत्ययस्य यकारस्य लोपः जातः '''लोपो व्योर्वलि''' (६.१.६५) इत्यनेन सूत्रेण | यदि यङ्प्रत्ययस्य लुप्तस्य अकारस्य '''अचः परस्मिन् पूर्वविधौ''' (१.१.५७) इत्यनेन स्थानिवद्भावः स्वीक्रियते, तर्हि '''आतोयाया लोप इटि+ च'''वर (६.४.६४)इति इत्यनेन आकारान्तस्य अङ्गस्य आकारस्य लोपः स्यात् अजादौ किति ङिति आर्धधातुकप्रत्यये परेभवति | यङ्प्रत्ययः आर्धधातुकप्रत्ययः; इदानीम् अजादिः च जातः; अङ्गं च आकारान्तम् अस्ति इत्यतः '''आतो लोप इटि च''' (६.४.६४) इत्यनेन आकारान्तस्य अङ्गस्य आकारस्य लोपः स्यात् अजादौ किति ङिति आर्धधातुकप्रत्यये परे |</big>
 
<big>याया अ + वर → याया इति आकारान्तम् अङ्गम् अस्ति, अ इति यङ्प्रत्ययस्य अवशिष्टः भागः अजादिः, ङित्, आर्धधातुकप्रत्ययः च अस्ति इति कृत्वा '''आतो लोप इटि च''' (६.४.६४) इत्यनेन याया इति अङ्गस्य आकारस्य लोपः भवति स्म |</big> <big>अर्थात् '''अचः परस्मिन् पूर्वविधौ''' (१.१.५७) इत्यनेन सूत्रेण स्थानिवद्भावस्य स्वीकारेण - याया + '''<u>अ</u>''' + वर इति दृश्येत '''आतो लोप इटि च''' (६.४.६४) इति सूत्रस्य दृष्ट्या | याया + अ इत्यत्र अ इति यङ्प्रत्ययस्य भागः अस्ति | अधुना सः अकारः स्थानिवद्भावेन लब्धः |</big>
 
<big>अर्थात् '''अचः परस्मिन् पूर्वविधौ''' (१.१.५७) इत्यनेन सूत्रेण स्थानिवद्भावस्य स्वीकारेण - याया + '''<u>अ</u>''' + वर इति दृश्येत '''आतो लोप इटि च''' (६.४.६४) इति सूत्रस्य दृष्ट्या | याया + अ इत्यत्र अ इति यङ्प्रत्ययस्य भागः अस्ति | अधुना सः अकारः स्थानिवद्भावेन लब्धः | परन्तु वरच्-प्रत्ययविधौ रूपसिद्धौ '''अचः परस्मिन् पूर्वविधौ''' (१.१.५७) इत्यनेन निर्दिष्टः स्थानिवद्भावः नैव प्रवर्तते यतोहि तस्य निषेधः क्रियते '''न पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु''' (१.१.५८) इति सूत्रेण | अतः अत्र आकारलोपः अपि न भवति '''आतो लोप इटि च''' (६.४.६४) इत्यनेन | अन्ततो गत्वा यायावर इति प्रातिपदिपकं लभ्यते तस्मात् सुबुत्पत्तिः क्रियते चेत् इष्टरूपं सिद्धयति |</big>
 
 
page_and_link_managers, Administrators
5,256

edits

Cookies help us deliver our services. By using our services, you agree to our use of cookies.

Navigation menu