9---anye-vyAkaraNa-sambaddha-viShayAH/15---sthAnivattvAtideshaH: Difference between revisions

Jump to navigation Jump to search
no edit summary
No edit summary
No edit summary
Line 134:
 
<big>परन्तु वरच्-प्रत्ययविधौ रूपसिद्धौ '''अचः परस्मिन् पूर्वविधौ''' (१.१.५७) इत्यनेन निर्दिष्टः स्थानिवद्भावः नैव प्रवर्तते यतोहि तस्य निषेधः क्रियते '''न पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु''' (१.१.५८) इति सूत्रेण | अतः अत्र आकारलोपः अपि न भवति '''आतो लोप इटि च''' (६.४.६४) इत्यनेन | अन्ततो गत्वा यायावर इति प्रातिपदिपकं लभ्यते तस्मात् सुबुत्पत्तिः क्रियते चेत् इष्टरूपं सिद्धयति |</big>
 
 
<big>याया अ + वर → इत्यत्र एकः प्रश्नः उदेति यत् किमर्थं यङ्प्रत्ययस्य यकारस्य स्थानिवद्भावः भवति वा इति ?</big>
 
 
<big>यङ्प्रत्ययस्य यकारस्य स्थानिवद्भावः न शक्यते</big> <big>'''अचः परस्मिन् पूर्वविधौ''' (१.१.५७) इत्यनेन यतोहि यकारः हल्वर्णः अस्ति न तु अज्वर्णः अतः अत्र '''अचः परस्मिन् पूर्वविधौ''' (१.१.५७) इत्यस्य प्रसक्तिः नास्ति | तर्हि अत्र '''स्थानिवदादेशोऽनल्विधौ''' (१.१.५६) इत्यनेन स्थानिवद्भावः शक्यते वा इति चिन्तनीयम् | '''आतो लोप इटि च''' (६.४.६४) इति सूत्रस्य यानि निमित्तानि सन्ति तेषु स्थानिनि यः वर्णः अस्ति यकारः तस्य आवश्यकता नास्ति अतः '''आतो लोप इटि च''' (६.४.६४) इति सूत्रम् अनल्विधिः अस्ति | एवञ्चेत् '''स्थानिवदादेशोऽनल्विधौ''' (१.१.५६) इत्यनेन स्थानिवद्भावः भवति स्म |</big>
 
 
<big>अत्र यदि '''स्थानिवदादेशोऽनल्विधौ''' (१.१.५६) इति सूत्रेण यकारस्य स्थानिवद्भावः स्यात्‌ तर्हि 'याया + य् अ + वर ' इति दृश्येत | तथा भवति चेत्‌ '''आतो लोप इटि च''' (६.४.६४) इत्यनेन आकारस्य लोप-आदेशः न स्यात्‌ | यकारे सति शास्त्रस्य अप्रवृत्तिः भविष्यति, इष्टं रूपं च न सेत्स्यति | अतः एतादृशस्थले, नाम यत्र शास्त्रस्य अप्रवृत्तिः जायते स्थानिवद्भावात्‌, तत्र '''स्थानिवदादेशोऽनल्विधौ''' (१.१.५६) इति सूत्रेण स्थानिवद्भावो न भवति |  इत्थञ्च यकारस्य स्थानिवद्भावः न स्वीक्रियते यतोहि इदं कार्यम् अशास्त्रीयमिति मन्यते |</big>
 
 
<big>४)           '''यलोप-विधिः''' = यलोपविधौ परनिमित्तकः अजादेशः स्थानिवद्भावं न प्राप्नोति |</big>
Line 165 ⟶ 167:
 
<big>अग्रे याया + ति → '''आतो लोप इटि च''' ( ६.४.६४) इत्यनेन अजादौ आर्धधातुके क्ङिति, इटि च आकारान्तस्य अङ्गस्य आकारस्य लोपो भवति → याय् + ति इति भवति | अत्रापि यङ्प्रत्ययस्य अकारस्य स्थानिवद्भावस्य विषये चिन्तनं कार्यं यथा पूर्वं वरेलोपप्रसङ्गे कृतम् |</big>
 
 
<big>याया + ति → पूर्वं प्रक्रियायाः आदौ ''यायाय'' इति यदा आसीत् तदा यङ्-प्रत्ययस्य अकारस्य लोपः जातः आसीत् '''अतो लोपः''' (६.४.४८) इत्यनेन सूत्रेण | तत्पश्चात् यङ्प्रत्ययस्य यकारस्य लोपः जातः '''लोपो व्योर्वलि''' (६.१.६५) इत्यनेन सूत्रेण | यदि यङ्प्रत्ययस्य लुप्तस्य अकारस्य '''अचः परस्मिन् पूर्वविधौ''' (१.१.५७) इत्यनेन स्थानिवद्भावः स्वीक्रियते, तर्हि याया '''अ''' ( यङ्प्रत्ययस्य भागः) + ति इति भवति | इदानीम् '''आतो लोप इटि च''' (६.४.६४) इत्यनेन आकारान्तस्य अङ्गस्य आकारस्य लोपः स्यात् अजादौ किति ङिति आर्धधातुकप्रत्यये परे |</big>
 
 
<big>याया अ + ति → याया इति आकारान्तम् अङ्गम् अस्ति, अ इति यङ्प्रत्ययस्य अवशिष्टः भागः अजादिः, ङित्, आर्धधातुकञ्च अस्ति इति कृत्वा '''आतो लोप इटि च''' (६.४.६४) इत्यनेन याया इति अङ्गस्य आकारस्य लोपः भवति स्म |</big> <big>अर्थात् '''अचः परस्मिन् पूर्वविधौ''' (१.१.५७) इत्यनेन सूत्रेण स्थानिवद्भावस्य स्वीकारेण - याया + '''<u>अ</u>''' + ति इति दृश्येत '''आतो लोप इटि च''' (६.४.६४) इति सूत्रस्य दृष्ट्या | अतः याया इत्यत्र आकारस्य लोपः भवति अजादौ आर्धधातुके ङिति परे | अतः याय् + ति इति भवति |</big>
Line 176 ⟶ 180:
<big>किन्तु '''अचः परस्मिन्‌ पूर्वविधौ''' (१.१.५७) इत्यनेन पूर्वविधौ कर्तव्ये परनिमित्तकः अजादेशः स्थानिवद्भवति | अतः याय् + ति इत्यत्र अन्त्यः यकारः ''या'' इव दृश्यते | अर्थात् '''लोपो व्योर्वलि''' (६.१.६५) इत्यस्य दृष्ट्या याया + ति इति दृश्यते | अतः '''लोपो व्योर्वलि''' (६.१.६५) इत्यनेन सूत्रेण तु याया इति दृश्यते इति कारणेन यकारलोपः न भवति स्म | एवं सति यातिः इति इष्टरूपसिद्धिः अपि न भवति | यथा अस्माभिः आकारलोपप्रसङ्गे स्थानिवद्भावस्य चिन्तनं कृतं तथैव यङ्प्रत्ययस्य अकारलोपस्य विषये स्थानिवद्भावचिन्तनम् अपि कार्यम् |</big>
 
 
<big>अतः अत्र '''अचः परस्मिन्‌ पूर्वविधौ''' (१.१.५७) इति सूत्रस्य कार्यं निषिध्यते यलोपप्रसङ्गे | '''अचः परस्मिन् पूर्वविधौ''' (१.१.५७) इत्यनेन यः स्थानिवद्भावः प्राप्तः, तस्य निषेधः क्रियते '''न पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु''' (१.१.५८) इति सूत्रेण यलोपविधौ | अतः स्थानिवद्भावः न सिद्ध्यति इति कृत्वा '''लोपो व्योर्वलि''' (६.१.६५) इत्यनेन सूत्रेण तु याय् + ति इत्यत्र यकारस्य लोपं करोति वलि परे | अतः '''यातिः''' इति रूपं निष्पद्यते सुबुत्पत्तेः अनन्तरम् |</big>
Line 300 ⟶ 303:
<big>परन्तु '''अचः परस्मिन् पूर्वविधौ''' (१.१.५७) इत्यनेन यः स्थानिवद्भावः प्राप्तः अस्ति तस्य निषेधः क्रियते '''न पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु''' (१.१.५८) इति सूत्रेण दीर्घविधौ | अत्र दीर्घविधौ कर्तव्ये अकारलोपः स्थानिवतद् '''न''' भवति, अतः '''हलि च''' (८.२.७७) इत्यनेन दीर्घादेशः प्राप्यते येन '''प्रतिदीव्ना''' इति रूपं सिद्धयति | एवमेव चतुर्थीविभक्तौ प्रतिदीव्ने इति रूपं लभ्यते |पञ्चमीविभक्तौ, षष्ठीविभक्तौ च प्रतिदीव्नः इति रूपं प्राप्यते |</big>
 
 
<big>९)           '''जश्त्वविधिः''' = जश्-विधौ परनिमित्तकः अजादेशः स्थानिवद्भावं न प्राप्नोति |</big>
Line 310 ⟶ 312:
<big>अदँ भक्षणे इति अदादिगणीयः धातुतः '''स्त्रियां क्तिन्''' (३.३.९४) इति सूत्रेण क्तिन् इति प्रत्ययः भावार्थे विधीयते | अद् + क्तिन् इति भवति  |</big>
 
<big>अद् + क्तिन्  → अधुना '''बहुलं छन्दसि''' (२.४.३९) इति सूत्रेण छन्दसि विषये अद् धातोः स्थाने घसॢँ-आदेशः भवति → घसॢ + ति | घस् इति अवशिष्यते |</big>
 
<big>घस् + ति</big> <big>→ '''घसिभसोर्हलि च''' (६.४.१००) इति सूत्रेण घसि, भस इत्येतयोः छन्दसि विषये उपधायाः लोपो भवति हलादौ अजादौ च किति ङिति प्रत्यये परे | घस् + ति → अत्र  घकारोत्तरस्य अकारस्य लोपः भवति '''घसिभसोर्हलि च''' (६.४.१००) इति सूत्रेण → घ् स् + ति इति भवति |</big>
 
<big>घ् स् + ति → अधुना '''झलो झलि''' (८.२.२६) इति सूत्रेण झलः उत्तरस्य सकारस्य झलि परे लोपो भवति | घ् स् + ति → अत्र सकारस्य लोपः भवति '''झलो झलि''' (८.२.२६) इति सूत्रेण यतोहि घकारः झल्-वर्णः अस्ति, तस्य अनन्तरं सकारः अस्ति, सकारात् परं तकारः झल्वर्णः वर्तते | अतः घ् + ति इति भवति |</big>
 
<big>घ् + ति → अधुना '''झषस्तथोर्धोऽधः''' (८.२.४०) इति सूत्रेण धा-धातुं विहाय अन्येषाम् धातूनाम् विषये झष्-वर्णात् परस्य तकारस्य थकारस्य च स्थाने धकारः इति आदेशः भवति | अतः घ् + ति इत्यत्र  तकारस्य स्थाने धकारादेशो भवति यतोहि घकारः झषन्तः अस्ति → घ् + धि इति भवति | '''अचः परस्मिन्‌ पूर्वविधौ''' (१.१.५७) इत्यस्य प्रसक्तिः न भवति अत्र यतोहि '''झषस्तथोर्धोऽधः''' (८.२.४०) इति सूत्रस्य विधिः पूर्वविधिः नास्ति |</big>
 
<big>घ् + धि → अधुना</big> <big>'''झलां जश् झशि''' (८.४.५३) इति सूत्रेण झशि परे झल् स्थाने जशादेशः स्यात् | अतः ग् + धि इति भवति स्म |</big>
 
<big>किन्तु '''अचः परस्मिन्‌ पूर्वविधौ''' (१.१.५७) इत्यनेन पूर्वविधौ कर्तव्ये अजादेशः स्थानिवद्भवति | अतः घकारोत्तरवर्ती अकारः स्थानिवद्भवति स्म | घ् '''अ''' + ति इतिवत् दृश्यते येन '''झलां जश् झशि''' (८.४.५३) इति सूत्रेण जश्त्वं न प्राप्यते स्म यतोहि झश्-वर्णः परः नास्ति |</big>
 
<big>किन्तु '''अचः परस्मिन् पूर्वविधौ''' (१.१.५७) इत्यनेन यः स्थानिवद्भावः प्राप्तः अस्ति तस्य निषेधः क्रियते '''न पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु''' (१.१.५८) इति सूत्रेण जश्त्वविधौ | अत्र जश्त्वविधौ कर्तव्ये अकारलोपः स्थानिवतद् न भवति, अतः</big> <big>घ् + धि इत्यत्र '''झलां जश् झशि''' (८.४.५३) इति सूत्रेण घकारस्य जश्त्वे गकारं कृत्वा ग् + धि → ‌ग्धि इति रूपं लभ्यते |</big>
 
 
<big>१०)       '''चर् -विधिः''' = चर्-विधौ परनिमित्तकः अजादेशः स्थानिवद्भावं न प्राप्नोति |</big>
 
Line 334 ⟶ 343:
<big>अद भक्षणे इति धातुतः लिट्लकारे प्रथमपुरुषे द्विवचने तस् इति प्रत्ययः विहितः |</big>
 
<big>अद् + लिट् → ‌ अद् + तस् → ‌ अधुना '''परस्मैपदानां णलतुसुस्थलथुसणल्वमाः''' (३.४.८२) इति सूत्रेण तस्-प्रत्ययस्य स्थाने अतुस्-आदेशः भवति → ‌अद् + अतुस् |</big>
 
<big>अद् + अतस् → ‌'''लिट्यन्यतरस्याम्''' (२.४.४०) इति सूत्रेण लिटि परतः अद् धातोः घस्लृ इति आदेशो भवति विकल्पेन | घस्लृ इति आदेशे घस् इति अवशिष्यते | घस्लृ इति आदेशपक्षे घस् + अतुस् इति भवति, विकल्पेन अद् + अतुस् इत्यपि भवति | घस्लृ इति आदेशप्रसङ्गे स्थानिवद्भावस्य चिन्तनं कुर्मः |</big>
 
<big>घस् + अतुस्→ '''लिटि धातोरनभ्यासस्य''' (६.१.८) इति सूत्रेण द्वित्वं जायते → घस् घस् + अतुस् → अभ्यासकार्याणि भूत्वा जघस् + अतुस् इति भवति |</big>
 
 
<big>जघस् + अतुस् → '''गमहनजनखनघसां लोपः क्ङित्यनङि''' (६.४.९८) इति सूत्रेण गम्, हन्, जन्, खन्, घस् इत्येतेषां धातूनाम् उपधावर्णस्य अजादौ किति, ङिति प्रत्यये परे लोपः भवति | जघस् इत्यत्र घस् इति धातुः विद्यते, अपि च अतुस् इति प्रत्ययः कित् इत्यतः '''गमहनजनखनघसां लोपः क्ङित्यनङि''' (६.४.९८) इति सूत्रस्य प्रसक्तिः भवति | अतः जघ् अ स् + अतुस् इत्यत्र घकारोत्तरस्य अकारस्य लोपः भूत्वा ज'''घ्''' स् + अतुस् इति भवति |</big>
 
 
<big>ज'''घ्''' स् + अतुस् → '''शासिवसिघसीनां च''' (८.३.६०)  इति सूत्रेण इण्कोः ( इण्-प्रत्याहारस्थवर्णाः, कवर्गीयवर्णाः) परस्य शास्, वस्, घस् इत्येतेषां धातूनाम् अपदान्तसकारस्य षकारादेशः भवति | अतः जघ् स् + अतुस् इत्यत्र घकारः कवर्गीयवर्णः , तस्य अनन्तरं सकारस्य स्थाने षकारादेशः भवति '''शासिवसिघसीनां च''' (८.३.६०)  इति सूत्रेण → जघ् ष् + अतुस् इति भवति |</big>
 
 
<big>जघ् ष् + अतुस् → अधुना '''खरि च''' ( ८.४.५५) इत्यनेन चर्वत्वं प्राप्तम् अस्ति येन घकारस्य स्थाने ककारादेशः भवति स्म षकारः इति खर्वर्णे परे |</big>
 
 
<big>परन्तु '''अचः परस्मिन्‌ पूर्वविधौ''' ( १.१.५७) इत्यनेन पूर्वविधौ कर्तव्ये अजादेशः स्थानिवद्भवति, अतः घकारोत्तरवर्ती अकारः स्थानिवद्भवति स्म | अतः ज'''घ''' ष् + अतुस् इतिवत् दृश्यते येन '''खरि च''' ( ८.४.५५) इति सूत्रेण चर्त्वं न प्राप्यते स्म | अधुना तु घकारात् परं तु खर्-वर्णः नास्ति |</big>
 
<big>किन्तु '''अचः परस्मिन् पूर्वविधौ''' (१.१.५७) इत्यनेन यः स्थानिवद्भावः प्राप्तः अस्ति तस्य निषेधः क्रियते '''न पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु''' (१.१.५८) इति सूत्रेण चर् -विधौ | अत्र चर्त्वविधौ कर्तव्ये अकारलोपः स्थानिवतद् न भवति, अतः</big> <big>जघ् ष् + अतुस् इत्यत्र '''खरि च''' (८.४.५५) इति सूत्रेण घकारस्य चर्त्वे ककारे कृते जक् ष् + अतुस् → जक्षतुस् → रुत्वविसर्गौ कृत्वा '''जक्षतुः''' इति रूपं लभ्यते |</big>
 
<big>किन्तु '''अचः परस्मिन् पूर्वविधौ''' (१.१.५७) इत्यनेन यः स्थानिवद्भावः प्राप्तः अस्ति तस्य निषेधः क्रियते '''न पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु''' (१.१.५८) इति सूत्रेण चर् -विधौ | अत्र चर्त्वविधौ कर्तव्ये अकारलोपः स्थानिवतद् न भवति, अतः</big> <big>जघ् ष् + अतुस् इत्यत्र '''खरि च''' (८.४.५५) इति सूत्रेण घकारस्य चर्त्वे ककारे कृते जक् ष् + अतुस् → जक्षतुस् → रुत्वविसर्गौ कृत्वा '''जक्षतुः''' इति रूपं लभ्यते |</big>
 
 
page_and_link_managers, Administrators
5,258

edits

Cookies help us deliver our services. By using our services, you agree to our use of cookies.

Navigation menu