|
|
<big>अतः एव स्थानिवद्भावं निषेधयितुम् एकं सूत्रं कृतं पाणिनिना यलोपप्रसङ्गे | अस्य यलोपविषये अग्रेऽपि पुनः पश्यामः | '''अचः परस्मिन् पूर्वविधौ''' (१.१.५७) इत्यनेन यः स्थानिवद्भावः प्राप्तः, तस्य निषेधः क्रियते '''न पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु''' (१.१.५८) इति सूत्रेण यलोपविषये /वरेविधौ | अतः स्थानिवद्भावः न सिद्ध्यति इत्यतः '''लोपो व्योर्वलि''' (६.१.६५) इत्यनेन सूत्रेण तु यायाय् + वर इत्येव दृश्यते इति कृत्वा यकारस्य लोपः जायते वलि परे | इत्थं च याया + वर = यायावर इति प्रतिपदिकं सिद्धयति स्म | अत्र इतोपि अग्रे किञ्चित् चिन्तनीयं भवति |</big>
<big>याया अ + वर → इत्यत्र एकः प्रश्नः उदेति यत् किमर्थं यङ्प्रत्ययस्य यकारस्य स्थानिवद्भावः भवति वा '''आतो लोप इटि च''' (६.४.६४) इति विधेः प्रसङ्गे ?</big>
<big>यङ्प्रत्ययस्य यकारस्य स्थानिवद्भावः न शक्यते</big> <big>'''अचः परस्मिन् पूर्वविधौ''' (१.१.५७) इत्यनेन यतोहि यकारः हल्वर्णः अस्ति न तु अज्वर्णः, अतः अत्रयकारप्रसङ्गे '''अचः परस्मिन् पूर्वविधौ''' (१.१.५७) इत्यस्य प्रसक्तिः नास्ति | तर्हि अत्रयकारस्य '''स्थानिवदादेशोऽनल्विधौ''' (१.१.५६) इत्यनेन स्थानिवद्भावः शक्यते वा इति चिन्तनीयम् | '''आतो लोप इटि च''' (६.४.६४) इति सूत्रस्यसूत्रे यानि निमित्तानि सन्ति तेषु स्थानिनि यः वर्णःयकारः अस्ति यकारःसः तस्यवर्णः आवश्यकतानिमित्तं नास्ति अस्य सूत्रस्य प्रवर्तनार्थम्, अतः '''आतो लोप इटि च''' (६.४.६४) इति सूत्रम् अनल्विधिः अस्ति | एवञ्चेत् '''स्थानिवदादेशोऽनल्विधौ''' (१.१.५६) इत्यनेन स्थानिवद्भावः भवति स्म | तर्हि '''आतो लोप इटि च''' (६.४.६४) इति सूत्रस्य अप्रवृत्तिः भविष्यति |</big>
|