9---anye-vyAkaraNa-sambaddha-viShayAH/15---sthAnivattvAtideshaH: Difference between revisions

Jump to navigation Jump to search
no edit summary
No edit summary
No edit summary
Line 172:
 
 
<big>याया + ति → याया इति आकारान्तम् अङ्गम् अस्ति, अ इति यङ्प्रत्ययस्य अवशिष्टः भागः अजादिः, ङित्, आर्धधातुकञ्च अस्ति इति कृत्वा '''आतो लोप इटि च''' (६.४.६४) इत्यनेन याया इति अङ्गस्य आकारस्य लोपः भवति स्म |</big> <big>अर्थात् '''अचः परस्मिन् पूर्वविधौ''' (१.१.५७) इत्यनेन सूत्रेण स्थानिवद्भावस्य स्वीकारेण - याया + '''<u>अ</u>''' + ति इति दृश्येत '''आतो लोप इटि च''' (६.४.६४) इति सूत्रस्य दृष्ट्या | अतः याया इत्यत्र आकारस्य लोपः भवति अजादौ आर्धधातुके ङिति परे | अतः याय् + ति इति भवति |</big>
 
 
Line 178:
 
 
<big>किन्तु '''अचः परस्मिन्‌ पूर्वविधौ''' (१.१.५७) इत्यनेन पूर्वविधौ कर्तव्ये परनिमित्तकः अजादेशः स्थानिवद्भवति | अतः याय् + ति इत्यत्र अन्त्यः यकारः ''या'' इव दृश्यते | अर्थात् '''लोपो व्योर्वलि''' (६.१.६५) इत्यस्य दृष्ट्या यायाया'''या''' + ति इति दृश्यते | अतः '''लोपो व्योर्वलि''' (६.१.६५) इत्यनेन सूत्रेण तु याया इति दृश्यते इति कारणेन यकारलोपः न भवति स्म | एवं सति यातिः इति इष्टरूपसिद्धिः अपि न भवति | यथा अस्माभिः आकारलोपप्रसङ्गे स्थानिवद्भावस्य चिन्तनं कृतं तथैव यङ्प्रत्ययस्य यकारलोपस्य, अकारलोपस्य विषये स्थानिवद्भावचिन्तनम्विषयेऽपि अपिस्थानिवद्भावचिन्तनम् कार्यम् |</big>
 
<big>अतः अत्र '''अचः परस्मिन्‌ पूर्वविधौ''' (१.१.५७) इति सूत्रस्य कार्यं निषिध्यते यलोपप्रसङ्गे | '''अचः परस्मिन् पूर्वविधौ''' (१.१.५७) इत्यनेन यः स्थानिवद्भावः प्राप्तः, तस्य निषेधः क्रियते '''न पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु''' (१.१.५८) इति सूत्रेण यलोपविधौ | अतः स्थानिवद्भावः न सिद्ध्यति इति कृत्वा '''लोपो व्योर्वलि''' (६.१.६५) इत्यनेन सूत्रेण तु याय् + ति इत्यत्र यकारस्य लोपंलोपः करोतिजायते वलि परे | अतः '''यातिः''' इति रूपं निष्पद्यते सुबुत्पत्तेः अनन्तरम् |</big>
 
Line 202:
 
 
<big>अधुना '''अचः परस्मिन्‌ पूर्वविधौ''' ( १.१.५७) इत्यनेन पूर्वविधौ कर्तव्ये परनिमित्तकः अजादेशः स्थानिवद्भवति | अतः चिकीर्ष् + अक इत्यत्र चिकीर्ष् इति भागस्य अन्तिमः वर्णः अकारवत् दृश्यते पूर्वविधेः '''लिति''' ( ६.१.१९३) इत्यस्य दृष्ट्या | '''लिति''' ( ६.१.१९३) इत्यनेन लित्-प्रत्यये परे प्रत्ययात् पूर्वमुपस्थितः स्वरः उदात्तः भवेत् | यस्मिन् प्रत्यये लकारः इत्संज्ञकः अस्ति, सः प्रत्ययः 'लित्' -प्रत्ययः' इति नाम्ना ज्ञायते | ण्वुल् इति प्रत्ययः लित् अस्ति यतोहि तस्मिन् लकारस्य इत्संज्ञा जाता |</big>
 
 
Line 232:
 
 
<big>शि श्नम् ष् + धि   → शि न ष् + धि → '''श्नसोरल्लोपः''' (६.४.१११) इति  सूत्रेण श्नम् इति विकरणप्रत्ययस्य च 'अस्' धातोः च अङ्गस्य अकारस्य सार्वधातुके कित्किति, ङित्ङिति प्रत्यये परे लोपः भवति | अतः नकारोत्तरस्य अकारस्य लोपः भवति → शि न् ष् + धि |</big>
 
 
<big>शि न् ष् + धि → '''नश्चापदान्तस्य झलि''' (८.३.२४) इति सूत्रेण अनुस्वारादेशः भवति नकारस्य स्थाने झलि परे → शिं ष् + धि भवति | अस्मिन् सोपने अपि '''अचः परस्मिन्‌ पूर्वविधौ''' (१.१.५७) इत्यस्य प्रसक्तिः अस्ति, परन्तु अस्मिन् विषये अनुस्वारविधौ चर्चयिष्यामः |</big>
 
 
Line 247:
 
 
<big>किन्तु '''अचः परस्मिन्‌ पूर्वविधौ''' (१.१.५७) इत्यनेन पूर्वविधौ कर्तव्ये परनिमित्तकः अजादेशः स्थानिवद्भवति | अतः नकारोत्तरवर्ती ( इदानीम् अनुस्वारःअनुस्वारोत्तरवर्ती) अकारः स्थानिवद्  भवति स्म  |  अर्थात् शिं '''''' ड् + ढि इव  दृश्यते '''अनुस्वारस्य ययि परसवर्णः''' (८.४.५८) इति सूत्रस्य दृष्ट्या | अतः '''अनुस्वारस्य ययि परसवर्णः''' (८.४.५८) इत्यनेन अनुस्वारस्य परसवर्णादेशः णकारः नैव प्राप्यते यतोहि अनुस्वारस्य अनन्तरं यय् -वर्णः एव नास्ति |  एवं चेत् शिण्ड्ढि इति इष्टरूपं न प्राप्यते एव अतः '''अचः परस्मिन् पूर्वविधौ''' (१.१.५७) इत्यस्य निषेधः आवश्यकः सवर्णविधौ |</big>
 
 
Line 268:
 
 
<big>शिष् + अन्ति → '''रुधादिभ्यः श्नम्''' (३.१.७८) इत्यनेन श्नम्-प्रत्ययस्य विधानम् | श्नम् इति प्रत्ययः मित्, अतः '''मिदचोऽन्त्यात्परः''' ( १.१.४७) इत्यनेन अचां मध्ये यः अन्त्यः, तस्मात् परः तस्यैव अन्तावयवः मित् स्यात् | श्नम् इति प्रत्ययः शिष् इति धातौ अन्तिमस्वरात् परम् आयाति |</big>
 
 
Line 277:
 
 
<big>किन्तु '''अचः परस्मिन्‌ पूर्वविधौ''' (१.१.५७) इत्यनेन पूर्वविधौ कर्तव्ये अजादेशः स्थानिवद्भवति, अतः अनुस्वारोत्तरवर्ती अकारः स्थानिवद् ( शिन् '''अ''' ष्+ अन्ति इव ) भवति स्म, अतः '''नश्चापदान्तस्य झलि''' (८.३.२४) इति सूत्रेण अनुस्वारादेशः नैव प्राप्यते यतोहि नकारस्य अनन्तरं झल् -वर्णः न दृश्यते |</big>
 
 
Line 289:
 
<big>प्रतिदिवन् इत्यस्मात् प्रातिपदिकात् तृतीयाविभक्तौ एकवचने टा इति प्रत्ययः विधीयते | प्रति इति उपसर्गकपूर्वकात् दिव् इति धातुतः '''कनिन् युवृषितक्षिराजिधन्विद्युप्रतिदिवः''' इति उणादिसूत्रेण कनिन् -प्रत्ययः विधीयते चेत् → प्रति + दिव् + कनिन् इति भवति | कनिन् इति प्रत्यये इत्संज्ञकवर्णानां लोपानन्तरं अन् इति अवशिष्यते → प्रति + दिव् + अन् इति भवति | कनिन् इति प्रत्ययः कृत्प्रत्ययः अतः तस्य योजनेन प्रातिपदिकं लभ्यते '''कृत्तद्धितसमासाश्च''' ( १.२.४६) इत्यनेन सूत्रेण→ प्रतिदिवन् इति प्रातिपदिकं लभ्यते |</big>
 
 
<big>प्रतिदिवन् + टा → प्रतिदिवन् + आ → अधुना '''अल्लोपोनः''' ( ६.४.१२४) इत्यनेन 'अन्' यस्य अन्ते तादृशस्य भसंज्ञकस्य अङ्गस्य उपधा-अकारस्य लोपः भवति | '''यचि भम्‌''' (१.४.१८) इत्यनेन सर्वनामस्थानसंज्ञक-प्रत्ययान्‌ अतिरिच्य सु-प्रत्ययात्‌ आरभ्य कप्‌-प्रत्ययपर्यन्तम्‌प्रत्ययपर्यन्तं ये प्रत्ययाः यकारादयः अजादयश्च, एषु कश्चन परः अस्ति चेत्‌ पूर्वतन-शब्दस्वरूपस्य भ-संज्ञा भवति | अतः प्रतिदिवन् इत्यस्य भसंज्ञा भवति आ इति अजादौ विभक्तिप्रत्यये परे → प्रतिदिव् '''अ''' न् + आ → अत्र अन् इति भागस्य अकारस्य लोपः भवति, अर्थात् उपधायस्थस्यउपधास्थस्य अकारस्य लोपः जायते → प्रतिदिव् न् + आ |</big>
 
 
<big>प्रतिदिव् न् + आ  → अधुना '''हलि च''' (८.२.७७) इत्यनेन हलि च परे रेफवकारान्तस्य धातोरुपधाया इको दीर्घो भवति स्म → दिव् इति धातोः अन्ते रेफःवकारः अस्ति, तस्य उपधायाम् इक्-वर्णः अपि अस्ति वकारात् परं हल्वर्णः अपि परः अस्ति | अतः वकारात् पूर्वं स्थितस्य इकारस्य दीर्घादेशः भवति स्म '''हलि च''' (८.२.७७) इत्यनेन सूत्रेण | प्रति'''दी'''व् न् + आ इति भवति स्म |</big>
 
 
Line 301:
 
 
<big>परन्तु '''अचः परस्मिन् पूर्वविधौ''' (१.१.५७) इत्यनेन यः स्थानिवद्भावः प्राप्तः अस्ति तस्य निषेधः क्रियते '''न पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु''' (१.१.५८) इति सूत्रेण दीर्घविधौ | अत्र दीर्घविधौ कर्तव्ये अकारलोपः स्थानिवतद् '''न''' भवति, अतः '''हलि च''' (८.२.७७) इत्यनेन दीर्घादेशः प्राप्यते येन '''प्रतिदीव्ना''' इति रूपं सिद्धयति | एवमेव चतुर्थीविभक्तौ प्रतिदीव्ने इति रूपं लभ्यते | पञ्चमीविभक्तौ, षष्ठीविभक्तौ च प्रतिदीव्नः इति रूपं प्राप्यते |</big>
 
Line 322:
 
<big>घ् + ति → अधुना '''झषस्तथोर्धोऽधः''' (८.२.४०) इति सूत्रेण धा-धातुं विहाय अन्येषाम् धातूनाम्धातूनां विषये झष्-वर्णात् परस्य तकारस्य थकारस्य च स्थाने धकारः इति आदेशः भवति | अतः घ् + ति इत्यत्र  तकारस्य स्थाने धकारादेशो भवति यतोहि घकारः झषन्तः अस्ति → घ् + धि इति भवति | '''अचः परस्मिन्‌ पूर्वविधौ''' (१.१.५७) इत्यस्य प्रसक्तिः न भवति अत्र यतोहि '''झषस्तथोर्धोऽधः''' (८.२.४०) इति सूत्रस्य विधिः पूर्वविधिः नास्ति |</big>
 
Line 341:
 
<big>अद भक्षणे इति धातुतः लिट्लकारे प्रथमपुरुषे द्विवचने तस् इति प्रत्ययः विहितः भवति |</big>
 
Line 350:
 
<big>घस् + अतुस्→अतुस् → '''लिटि धातोरनभ्यासस्य''' (६.१.८) इति सूत्रेण द्वित्वं जायते → घस् घस् + अतुस् → अभ्यासकार्याणि भूत्वा जघस् + अतुस् इति भवति |</big>
 
 
<big>जघस् + अतुस् → '''गमहनजनखनघसां लोपः क्ङित्यनङि''' (६.४.९८) इति सूत्रेण गम्, हन्, जन्, खन्, घस् इत्येतेषां धातूनाम् उपधावर्णस्य अजादौ किति, ङिति प्रत्यये परे लोपः भवति | '''असंयोगाल्लिट् कित्''' ( १.२.५) इत्यनेन असंयोगान्ताद् धातोः परः लिट् प्रत्ययः अपित् किद् भवति | जघस् इत्यत्र घस् इति धातुः विद्यते, अपि च अतुस् इति प्रत्ययः कित् भवति यतोहि जघस् इत्यत्र धातोः अन्ते संयोगः नास्ति | एवञ्च अत्र इत्यतः '''गमहनजनखनघसां लोपः क्ङित्यनङि''' (६.४.९८) इति सूत्रस्य प्रसक्तिः भवति | अतः जघ् अ स् + अतुस् इत्यत्र घकारोत्तरस्य अकारस्य लोपः भूत्वा ज'''घ्''' स् + अतुस् इति भवति |</big>
 
 
Line 362:
 
 
<big>परन्तु '''अचः परस्मिन्‌ पूर्वविधौ''' ( १.१.५७) इत्यनेन पूर्वविधौ कर्तव्ये अजादेशः स्थानिवद्भवति, अतः घकारोत्तरवर्ती अकारः स्थानिवद्भवति स्म | अतः ज'''घ''' ष् + अतुस् इतिवत् दृश्यते येन '''खरि च''' ( ८.४.५५) इति सूत्रेण चर्त्वं न प्राप्यते स्म | अधुना तुयतोहो घकारात् परं तु अधुना खर्-वर्णः एव नास्ति अपि तु अकारः अस्ति |</big>
 
 
page_and_link_managers, Administrators
5,258

edits

Cookies help us deliver our services. By using our services, you agree to our use of cookies.

Navigation menu