9---anye-vyAkaraNa-sambaddha-viShayAH/15---sthAnivattvAtideshaH: Difference between revisions

Jump to navigation Jump to search
no edit summary
No edit summary
No edit summary
Line 31:
<big>'''३) न पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु''' ( १.१.५८) = पदस्य चरमावयवे द्विर्वचनादौ च कर्तव्ये परनिमित्तः अजादेशः न स्थानिवत् | पदान्तविधौ, द्विर्वचनविधौ, वरे-विधौ, यलोपविधौ, स्वरविधौ, सवर्णविधौ, अनुस्वारविधौ, दीर्घविधौ, जश्विधौ, चर्-विधौ च कर्तव्ये परनिमित्तकः अजादेशः स्थानिवत् न भवति |  विधिशब्दस्य प्रत्येकं सम्बन्धः अनेन न्यायेन - द्वन्द्वादौ, द्वन्द्वमध्ये, द्वन्द्वान्ते च श्रूयमाणं पदं प्रत्येकम् अभिसम्बध्यते इति | अस्य न्यायस्य अर्थः - द्वन्द्वसमासस्य अन्ते यस्य पदस्य श्रवणं, तस्य पदस्य द्वन्द्वसमासे प्रत्येकं पदेन सह सम्बन्धः भवति इति | अतः एव विधिशब्दस्य द्वन्द्वसमासे प्रत्येकं पदेन सह सम्बन्धः इति कृत्वा पदान्तविधिः, द्विर्वचनविधिः, वरेविधिः, यलोपविधिः, स्वरविधिः, सवर्णविधिः, अनुस्वारविधिः, दीर्घविधिः, जश्विधिः, चर्-विधिः इति स्वीक्रियते |  इदं स्थानिवद्भावनिषेधकं सूत्रम् अस्ति | अर्थात् '''अचः परस्मिन् पूर्वविधौ''' (१.१.५७) इत्यस्य निषेधकं सूत्रमिदम् | पदस्यान्तः पदान्तः, षष्ठीतत्पुरुषः | पदान्तः इत्यत्र अन्तः इति शब्दः चरमः, अन्तिमः इत्यर्थे स्वीकृतः | पदान्तः अन्त्यवर्णस्य बोधकः इत्यर्थः | द्वयोर्वचनं द्विर्वचनम् | यस्य लोपो यलोपः | निपातनात् वरे इत्यत्र विभक्त्यलोपः | पदान्तश्च द्विर्वचनं च वरे च यलोपश्च स्वरश्च सवर्णश्च अनुस्वारश्च दीर्घश्च जश्च चर्च तेषामितरेतरयोगद्वन्द्वः, पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वरदीर्घजश्चरः, तेषां विधयः पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधयस्तेषु, पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु अनेकसमासगर्भषष्ठीतत्पुरुषः। न इत्यव्ययम् | पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु सप्तमीबहुवचनान्तम् | '''स्थानिवदादेशोऽनल्विधौ''' (१.१.५६) इत्यस्मात् सूत्रात् स्थानिवत्, आदेशः इत्यनयोः अनुवृत्तिः | '''अचः परस्मिन् पूर्वविधौ''' (१.१.५७) इत्यस्मात् सम्पूर्णसूत्रस्य अनुवृत्तिः | वरे इत्यस्य अचः आदेशः इत्यनेन साक्षात् सम्बन्धः वर्तते |  अनुवृत्ति-सहित-सूत्रं—'''पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु अचः परस्मिन् पूर्वविधौ''' '''स्थानिवद् आदेशः न''' |</big>
 
[[File:स्थानिवत्तातिदेशः.png|border|center|frameless|617x617px|स्थानिवत्तातिदेशः]]
 
 
<big>उदाहरणानि –</big>
 
 
 
page_and_link_managers, Administrators
5,258

edits

Cookies help us deliver our services. By using our services, you agree to our use of cookies.

Navigation menu