9---anye-vyAkaraNa-sambaddha-viShayAH/15---sthAnivattvAtideshaH: Difference between revisions

Jump to navigation Jump to search
no edit summary
No edit summary
No edit summary
Line 441:
 
<big>'''एकाचो द्वे प्रथमस्य''' (६.१.१) = अधिकारसूत्रं— प्रथमस्य एकाच्‌-भागस्य द्वित्वं भवति | जागृ → जा जागृ | पच्‌ → पच्‌ पच्‌ | इ → इ इ | षष्ठाध्यायस्य प्रदमपादस्य द्वादशं सूत्रं (६.१.१२) पर्यन्तं सर्वत्र अनुवर्तते | एकाचः षष्ठ्यन्तं, द्वे प्रथमान्तं, प्रथमस्य षष्ठ्यन्तं, त्रिपदमिदं सूत्रम्‌ | सूत्रं स्वयं सम्पूर्णम्‌— '''प्रथमस्य एकाचः द्वे''' |</big>
 
 
 
<big>'''पूर्वोऽभ्यासः''' (६.१.४) = द्वित्वानन्तरं, यस्मिन्‌ द्विवारम्‌ उच्चारणं जातं तस्मिन्‌ प्रथमभागस्य नाम अभ्यासः | पूर्वः प्रथमान्तम्‌, अभ्यासः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''एकाचो द्वे प्रथमस्य''' (६.१.१) इत्यस्मात्‌ '''द्वे''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रं— '''पूर्वः अभ्यासः द्वयोः''' |</big>
 
 
 
<big>'''उभे अभ्यस्तम्''' (६.१.५) = द्वित्वानन्तरं, द्वयोः समुदायः अभ्यस्तसंज्ञको भवति | उभे प्रथमान्तम्‌, अभ्यस्तं प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''एकाचो द्वे प्रथमस्य''' (६.१.१) इत्यस्मात्‌ '''द्वे''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌—'''उभे द्वे अभ्यस्तम्''' |</big>
 
 
<big>'''प्रत्ययलोपे प्रत्ययलक्षणम्‌''' (१.१.६२) = प्रत्यये लुप्ते सति, प्रत्ययं मत्वा तस्य द्वारा विहितं कार्यं स्यात्‌ | प्रत्ययस्य लोपः प्रत्ययलोपः षष्ठीतत्पुरुषः, तस्मिन्‌ प्रत्ययलोपे | प्रत्ययस्य लक्षणं निमित्तं यस्य तत्‌ प्रत्ययलक्षणम्‌, बहुव्रीहिः | सूत्रं स्वयं सम्पूर्णं— '''प्रत्ययलोपे प्रत्ययलक्षणम्‌''' |</big>
 
 
page_and_link_managers, Administrators
5,258

edits

Cookies help us deliver our services. By using our services, you agree to our use of cookies.

Navigation menu