14---samAsaH/03A-1---tatpuruShasamAsaH---sAmAnyatatpuruSHasya sAraMshaH: Difference between revisions

Jump to navigation Jump to search
no edit summary
No edit summary
No edit summary
Line 726:
 
 
<big>अन्तर् इति शब्दः अव्ययम् अस्ति | अन्तर् इति शब्दः तु अधिकरणप्रधाने एव पठ्यते | अन्तर् इति शब्दस्य अधिकरणकत्वमात्रवृत्तित्वे तु विभक्त्यर्थे॑ नित्यमव्ययीभावः | अन्तर् इत्यस्य प्रयोगे तत्सामानाधिकरण्यमेव सप्तम्याः कारणम् | वने इति (मध्ये) = अन्तर्वणम् वसति इति पूर्वपदार्थप्रधान्ये तु `विभक्त्यर्थे यदव्ययम्` '''अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि- अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु''' (२.१.६) इत्यनेन अव्ययीभावसमासः एव भवति |</big> <big>अन्तर् इति शब्दः यदा अधिकरणप्रधानः भवति तदा अव्ययीभावसमासः भवति | यथा वने इति = ''अन्तर्वणम्'' ( in the middle of the forest) इति अव्ययीभावसमासः विभक्त्यर्थे भवति | रामः अन्तर्वणे/अन्तर्वणम् वसति इति वाक्ये अधिकरणस्य प्राधान्यं यतोहि अधिकरणार्थे अन्तर्वणम् इति समासः निष्पन्नः अस्ति | अतः अन्तर्वणम् इति समासे अन्तर् इति शब्दः अधिकरणमात्रवृत्तिः इति वक्तुं शक्यते |</big> <big>अन्तर्वणम् इत्यत्र णत्वं भवति '''प्रनिरन्तःशरेक्षुप्लक्षाम्रकार्ष्यखदिरपीयूक्षाभ्योऽसंज्ञायामपि''' ( ८.४.५) इति सूत्रेण | अनेन सूत्रेण प्र निरन्तर् शर इक्षु प्लक्ष आम्र कार्ष्य खदिर पीयूक्षा इत्येतेभ्यः उत्तरस्य वननकारस्य संज्ञायामसंज्ञायामपि णकारादेशो भवति | प्र प्रवणे यष्टव्यम् | निर्निर्वणे प्रतिढीयते | अन्तर् अन्तर्वर्णे | शर शरवणम् | इक्षु इक्षुवणम् | प्लक्ष प्लक्षवणम | आम्र आम्रवणम्। कार्ष्य कार्ष्यवणम् | खदिर खदिरवणम् | पीयूक्षा पीयूक्षावणम् |</big>
 
 
<big>अन्तः शब्दोऽत्र पठ्यते, तद्योगेऽवयविनः आधारत्वविवक्षायां सप्तमी, यथा वृक्षे शाखेति, वनेऽन्तर्वनान्तःवने अन्तः वनान्तः | अस्य विकल्पितत्वादव्ययीभावोऽपिविकल्पितत्वात् अव्ययीभावः अपि भवति, अन्तर्वणम् , वने इति | अत्र ''''प्रनिरन्तःशरेक्षुप्लक्षाम्रकार्ष्यखदिरपीयूक्षाभ्योऽसंज्ञायामपि''' ( ८.४.५)' इति सूत्रेण णत्वम्।</big>
 
 
<big>''वने अन्तः (अन्तर्) = वनान्तः'' ( वनप्रदेशः) इति सप्तमीतत्पुरुषसमासः, विकल्पेन वने अन्तः इत्यपि भवति | वन्तान्तः इत्युक्ते वनप्रदेशः इति अर्थः अधिकरणार्थे नास्ति | यत्र अन्तर् इति आधेयप्रधानः तत्र तत्पुरुषसमासः, यथा वने अन्तः, वनान्तः | यत्र अन्तर् इति अधिकरणप्रधानः तत्र अव्ययीभावसमासः भवति | यथा अन्तर् वने = अन्तर्वणम्, अन्तर् वने |</big>
|}
----
page_and_link_managers, Administrators
5,256

edits

Cookies help us deliver our services. By using our services, you agree to our use of cookies.

Navigation menu