12---vyAvahArikii-shikShikA/anvisatianvisyati: Difference between revisions

Jump to navigation Jump to search
no edit summary
(Created page with "<please replace this with content from corresponding Google Sites page> ")
 
No edit summary
Line 1:
'''<big>विषयः - अन्विषति / अन्विष्यति</big>'''
<please replace this with content from corresponding Google Sites page>
 
'''<big>प्रश्नः</big>'''
 
<big>"ज्ञानार्थी उत्तराणि अन्विषति" उत "ज्ञानार्थी उत्तराणि अन्विष्यति" -- अनयोः कः प्रयोगः साधुः?</big>
 
'''<big>उत्तरम्</big>'''
 
<big>"ज्ञानार्थी उत्तराणि अन्विष्यति" इत्येव साधुः प्रयोगः |</big>
 
<big>- इष गतौ इति दिवादिगणीयः परस्मैपदी धातुः | इष् इति अनुबन्धरहितलौकिकधातुः |</big>
 
<big>- लट्-लकारस्य प्रथमपुरुषैकवचनविवक्षायां तिप्-प्रत्यये विहिते इष् + तिप् इति |</big>
 
<big>- तिप् इति कर्त्रर्थकः सार्वधातुकः प्रत्ययः इत्यस्मात् '''कर्तरि शप्‌''' (३.१.६८) इत्यनेन शप्-प्रत्ययः विधीयते, इष् + शप् + ति |</big>
 
<big>- तदा शपं प्रबाध्य दिवादिगणस्य श्यन् इति विकरणप्रत्ययः विहितः भवति '''दिवादिभ्यः श्यन्‌''' (३.१.६९) इत्यनेन, इष् + श्यन् + ति |</big>
 
<big>- इष् + श्यन् + ति '''→''' इष् + य + ति '''→''' इष्यति इति प्रथमपुरुषैकवचने दिवादिगणीयस्य इष्-धातोः रूपम् |</big>
 
<big>- अनु-उपसर्गपूर्वकस्य इष्-धातोः अनु + इष्यति इति स्थितिः | '''इको यणचि''' (६.१.७७) इत्यनेन यण्-सन्धिः, अनु + इष्यति '''→''' अन्विष्यति |</big>
 
<big>- यदि इष्-धातुः तुदादिगणीयः अभविष्यत् तदा तुदादिगणीयस्य श-इति विकरणप्रत्ययस्य प्रभावात् अन्विषति इति रुपम् असेत्स्यत् |</big>
 
<big>- किन्तु इष गतौ इति दिवादिगणीयः | अतः अन्विष्यति इत्येव अनु-उपसर्गपूर्वकस्य इष्-धातोः प्रथमपुरुषैकवचने रूपम् |</big>
 
<big>परिशिष्टम्</big>
 
<big>- इष अभीक्ष्ण्ये इति क्र्यादिगणीयः धातुः अस्ति | इष्णाति इति तस्य प्रथमपुरुषैकवचने रूपम् |</big>
 
<big>- 'अभीक्ष्ण्यम्‌' इत्यनेन पौनःपुन्यम्‌ | अतः इष्णाति इत्यस्य 'वारं वारं करोति' इत्यर्थः |</big>
 
<big>- क्र्यादिगणीयस्य इष्-धातोः तिप्-प्रत्यये विहिते, श्ना-विकरणप्रत्यये परे इष् + श्ना + तिप् '''→''' इष् + ना + ति '''→''' इष्णाति इति रूपम् |</big>
 
<big>- इष इच्छायाम् इति तुदादिगणीयः धातुः अस्ति | इच्छति इति तस्य प्रथमपुरुषैकवचने रूपम् |</big>
 
<big>- तुदादिगणीयस्य इष्-धातोः तिप्-प्रत्यये विहिते, श-विकरणप्रत्यये परे '''इषुगमियमां छः''' (७.३.७७) इत्यनेन शिति परे छकारादेशः |</big>
 
<big>- इष् + श + तिप् '''→''' इछ् + अ + ति | तदा '''छे च''' (६.१.७३) इत्यनेन ह्रस्वस्वरस्य तुगागमः | इत्‌छ्‌ + अ '''→''' इच्छ्‌ + अ + ति इच्छति इति रूपम् |</big>
deletepagepermission, page_and_link_managers, teachers
2,642

edits

Cookies help us deliver our services. By using our services, you agree to our use of cookies.

Navigation menu