एतस्य/एतस्याः – तस्य/तस्याः नाम?
एतस्य/एतस्याः – तस्य/तस्याः नाम?
अधोलिखितानि पदानि ध्यानेन पठतु
दकारान्तः एतद् शब्दः | ||
---|---|---|
पुंलिङ्गे | ||
विभक्तिः | एकवचनम् | बहुवचनम् |
प्रथमा | एषः | एते |
षष्ठी | एतस्य | एतेषाम् |
स्त्रीलिङ्गे | ||
विभक्तिः | एकवचनम् | बहुवचनम् |
प्रथमा | एषा | एताः |
षष्ठी | एतस्याः | एतासाम् |
नपुंसकलिङ्गे | ||
विभक्तिः | एकवचनम् | बहुवचनम् |
प्रथमा | एतत् / एतद् | एतानि |
षष्ठी | एतस्य | एतेषाम् |
दकारान्तः तद् शब्दः | ||
---|---|---|
पुंलिङ्गे | ||
विभक्तिः | एकवचनम् | बहुवचनम् |
प्रथमा | सः | ते |
षष्ठी | तस्य | तेषाम् |
स्त्रीलिङ्गे | ||
विभक्तिः | एकवचनम् | बहुवचनम् |
प्रथमा | सा | ताः |
षष्ठी | तस्याः | तासाम् |
नपुंसकलिङ्गे | ||
विभक्तिः | एकवचनम् | बहुवचनम् |
प्रथमा | तत् / तद् | तानि |
षष्ठी | तस्य | तेषाम् |
दकारान्तः अस्मद् शब्दः - त्रिषु लिङ्गेषु समानः | ||
---|---|---|
विभक्तिः | एकवचनम् | बहुवचनम् |
प्रथमा | अहम् | वयम् |
षष्ठी | मम / मे | अस्माकम् / नः |
दकारान्तः युष्मद् शब्दः - त्रिषु लिङ्गेषु समानः | ||
---|---|---|
विभक्तिः | एकवचनम् | बहुवचनम् |
प्रथमा | त्वम् | यूयम् |
षष्ठी | तव / ते | युष्माकम् / वः |
एतस्य / एतस्याः – तस्य / तस्याः नाम?
(त्रिषुलिङ्गेषु)
अधोलिखितानि पदानि ध्यानेन पठतु
प्रथमा एकवचनम् | षष्ठी एकवचनम् | प्रथमा बहुवचनम् | षष्ठी बहुवचनम् | ||
एतद् | पुंलिङ्गे | एषः | एतस्य | एते | एतेषाम् |
स्त्रीलिङ्गे | एषा | एतस्याः | एताः | एतासाम् | |
नपुं -लिङ्गे | एतत्/एतद् | एतस्य | एतानि | एतेषाम् | |
तद् | पुंलिङ्गे | सः | तस्य | ते | तेषाम् |
स्त्रीलिङ्गे | सा | तस्याः | ताः | तासाम् | |
नपुं -लिङ्गे | तत्/तद् | तस्य | तानि | तेषाम् | |
युष्मद् | त्रिषुलिङ्गेषु | त्वम् | तव /ते | यूयम् | युष्माकम् / वः |
अस्मद् | त्रिषुलिङ्गेषु | अहम् | मम /मे | वयम् | अस्माकम् / नः |
उदाहरणानि पश्यतु, पठतु
एतद् | ||
पुंलिङ्गे | एषः बालकः ।
एतस्य नाम मोहनः। | |
स्त्रीलिङ्गे | एषा बालिका।
एतस्याः नाम राधा। | |
नपुंसकलिङ्गे | एतत् पुष्पम्।
एतस्य नाम कमलम्। | |
तद् | ||
पुंलिङ्गे | सः अध्यापकः ।
तस्य नाम गिरिधरमहोदयः। | |
स्त्रीलिङ्गे | सा नर्तकी।
तस्याः नाम रोहिणी। | |
नपुंसकलिङ्गे | तत् फलम् ।
तस्य नाम आम्रफलम्। | |
युष्मद् | ||
युष्मद्
त्रिषुलिङ्गेषु |
त्वं विदूषकः।
तव नाम राघवः। | |
त्वं नर्तकी।
तव नाम शाम्भवी। | ||
त्वं पुस्तकम्।
तव नाम रामायणम्। | ||
अस्मद् | ||
अस्मद्
त्रिषुलिङ्गेषु |
अहम् अर्चकः।
मम नाम विजेयेन्द्रः। | |
अहं देवी ।
मम नाम सरस्वती। | ||
अहं पुष्पम्।
मम नाम पाटलपुष्पम्। |
उदाहरणं दृष्ट्वा तादृशवाक्यानि लिखतु ।
अभ्यासाः
उदाहरणानुगुणं रिक्तस्थानानि पूरयन्तु
1. एषः बालकः । ...एतस्य..... नाम मोहनः ।
2. एषः गायकः । .............. नाम कुमारगन्धर्वः ।
3. एषा बालिका । ...एतस्या... नाम मोहिनि ।
4. एषा गायिका । ............. नाम लता ।
5. एतत् नगरम् । ...एतस्य.... नाम हरिद्वारम् ।
6. एतत् भवनम् । .............. नाम संस्कृतधामम् ।
7. सः घनश्यामः । ....तस्य..... जनकः वसुदेवः ।
8. सः श्यामः । ............. अग्रजः बलरामः ।
9. सः शिक्षकः । ............. पुस्तकम् एतत् ।
10. सः अधिकारिः । ............. कार्यालयः अत्र अस्ति।
11. सः रविः । ............. युतकं सुन्दरम् अस्ति ।
12. सः सिंहः । ............. गर्जनं भयानकम् ।
13. सा युवति । ....तस्या.... नाम गौरी ।
14. सा गीता । .............. शाटिका सुन्दरी।
15. सा नदी । .............. वेगः अधिकः ।
16. सा लता । .............. पत्राणि कोमलानि ।
17. सा बुद्धिमती । .............. साहाय्यं स्वीकरोतु ।
18. सा माता । .............. सहनशक्तिः अधिका ।