9---anye-vyAkaraNa-sambaddha-viShayAH/15---sthAnivattvAtideshaH: Difference between revisions

Jump to navigation Jump to search
no edit summary
No edit summary
No edit summary
Line 52:
 
 
<big>कानि + स् + अन्ति → अस्यां स्थितौ '''कानि सन्ति''' इति रूपं सिद्धयति | किन्तु अत्र '''अचः परस्मिन्‌ पूर्वविधौ''' (१.१.५७) इत्यनेन पूर्वविधौ कर्तव्ये परनिमित्तकः अजादेशः स्थानिवद्भवति, अतः सन्ति इत्यत्र सकारात् पूर्वं यस्य अकारस्य लोपः जातः सः स्थानिवद्भवति पूर्वविधेः '''इको यणचि''' (६.१.७७)  इत्यस्य दृष्टया |</big>
 
<big>कानि + अ स् + अन्ति इति दृश्यते '''इको यणचि''' (६.१.७७)  इति सूत्रस्य दृष्ट्या | अतः अत्र अकारः अस्तीव दृश्यते '''इको यणचि''' (६.१.७७)  इति पूर्वविधौ कर्तव्ये | "अस्" दृश्यते इति कारणतः अधुना कानि इति पदस्य अन्ते पदान्तविधिः जायते स्म '''इको यणचि''' (६.१.७७) इत्यनेन अचि परे | अतः कानि इति पदस्य अन्ते इकारस्य स्थाने यणादेशः भवति स्म, येन ''कान्य्सन्ति'' इति अनिष्टरूपं प्राप्यते स्म |</big>
 
 
 
<big>एतन्निवारणाय एव पदान्तविधिप्रसङ्गे '''न पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु''' (१.१.५८) इति सूत्रेण स्थानिवद्भावस्य निषेधः क्रियते येन इष्टरूपसिद्धिः जायते | अतः स्थानिवद्भावः न सिद्ध्यति | अनेन कारणेन '''इको यणचि''' (६.१.७७) इत्यनेन यणादेशः न भवति येन कानि + स् + अन्ति → इत्यत्र '''कानि सन्ति''' इति इष्टरूपं निष्पद्यते |</big>
Line 111 ⟶ 113:
 
<big><u>यायावरः इति पदस्य प्रक्रियां पश्यामः</u> –</big>
 
<big>यायाय + वरच् → '''यश्च यङः''' (३.२.१७६) इत्यनेन सूत्रेण वरच्-प्रत्ययः विधीयते | वरच् इत्यत्र चकारस्य इत्संज्ञा, लोपश्च भवति → यायाय + वर इति भवति |</big>
Line 181 ⟶ 183:
 
<big>अग्रे ण्वुलन्तं रूपं साधयितुं चिकीर्ष इति धातुतः ण्वुल् प्रत्ययः विहितः भवति '''ण्वुल्तृचौ''' (३.१.१३३) इत्यनेन सूत्रेण |</big>
<big>अग्रे ण्वुलन्तं रूपं साधयितुं चिकीर्ष इति धातुतः ण्वुल् प्रत्ययः विहितः भवति '''ण्वुल्तृचौ''' (३.१.१३३) इत्यनेन सूत्रेण | चिकीर्ष + ण्वुल् इति भवति | अग्रे ण्वुल् इति प्रत्ययस्य स्थाने '''युवारनाकौ''' (७.१.१) इत्यनेन अकादेशः भवति → चिकीर्ष + अक → '''अतो लोपः''' (६.४.४८) इत्यनेन अदन्ताङ्गस्य ह्रस्व-अकारलोपो भवति आर्धधातुके प्रत्यये परे → चिकीर्ष् + अक = चिकीर्षक → '''अचः परस्मिन्‌ पूर्वविधौ''' ( १.१.५७) इत्यनेन पूर्वविधौ कर्तव्ये अजादेशः स्थानिवद्भवति, अतः चिकीर्ष् + अक इत्यत्र अन्तिमः वर्णः अकारवत् दृश्यते, चिकीर्ष + अक इव दृश्यते, → अतः '''लिति''' ( ६.१.१९३) इत्यनेन लित्-प्रत्यये परे प्रत्ययात् पूर्वमुपस्थितः स्वरः उदात्तः भवेत् | यस्मिन् प्रत्यये लकारः इत्संज्ञकः अस्ति, सः प्रत्ययः 'लित्' प्रत्ययः नाम्ना ज्ञायते |  अत्र स्वरविधौ कर्तव्ये यदि लुप्तः अकारः स्थानिवद् स्यात् तर्हि इदम् उदात्तत्वम् अकारस्य विषये प्रसज्येत । परन्तु '''अचः परस्मिन् पूर्वविधौ''' (१.१.५७) इत्यनेन यः स्थानिवद्भावः प्राप्तः अस्ति तस्य निषेधः क्रियते '''न पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु''' (१.१.५८) इति सूत्रेण | अत्र लुप्तः अकारः स्थानिवद् न भवति, अतः चिकीर्ष + अक इत्यत्र ककारोत्तस्य ईकारस्य एव उदात्तत्वं विधीयते '''लिति''' ( ६.१.१९३) इत्यनेन |</big>
 
 
<big>चिकीर्ष + ण्वुल् → अग्रे ण्वुल् इति प्रत्ययस्य स्थाने '''युवारनाकौ''' (७.१.१) इत्यनेन अकादेशः भवति → चिकीर्ष + अक |</big>
 
 
<big>चिकीर्ष + अक → '''अतो लोपः''' (६.४.४८) इत्यनेन अदन्ताङ्गस्य ह्रस्व-अकारलोपो भवति आर्धधातुके प्रत्यये परे → चिकीर्ष् + अक = चिकीर्षक |</big>
 
 
<big>अधुना '''अचः परस्मिन्‌ पूर्वविधौ''' ( १.१.५७) इत्यनेन पूर्वविधौ कर्तव्ये परनिमित्तकः अजादेशः स्थानिवद्भवति | अतः चिकीर्ष् + अक इत्यत्र अन्तिमः वर्णः अकारवत् दृश्यते पूर्वविधेः '''लिति''' ( ६.१.१९३) इत्यस्य दृष्ट्या | '''लिति''' ( ६.१.१९३) इत्यनेन लित्-प्रत्यये परे प्रत्ययात् पूर्वमुपस्थितः स्वरः उदात्तः भवेत् | यस्मिन् प्रत्यये लकारः इत्संज्ञकः अस्ति, सः प्रत्ययः 'लित्' प्रत्ययः नाम्ना ज्ञायते |</big>
 
 
<big>'''लिति''' ( ६.१.१९३) इत्यस्य दृष्ट्या चिकीर्ष + अक इव दृश्यते, अतः अक इति लित्-प्रत्यये परे, प्रत्ययात् पूर्वमुपस्थितः स्वरः उदात्तः भवेत् |  अत्र स्वरविधौ कर्तव्ये यदि लुप्तः अकारः स्थानिवद् स्यात् तर्हि इदम् उदात्तत्वम् अकारस्य विषये प्रसज्येत ।</big>
 
 
<big>परन्तु '''अचः परस्मिन् पूर्वविधौ''' (१.१.५७) इत्यनेन यः स्थानिवद्भावः प्राप्तः, तस्य निषेधः क्रियते '''न पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु''' (१.१.५८) इति सूत्रेण | अत्र लुप्तः अकारः स्थानिवद् न भवति, अतः चिकीर्ष + अक इत्यत्र ककारोत्तस्य ईकारस्य एव उदात्तत्वं विधीयते '''लिति''' ( ६.१.१९३) इत्यनेन |</big>
 
page_and_link_managers, Administrators
5,258

edits

Cookies help us deliver our services. By using our services, you agree to our use of cookies.

Navigation menu