9---anye-vyAkaraNa-sambaddha-viShayAH/15---sthAnivattvAtideshaH: Difference between revisions

Jump to navigation Jump to search
no edit summary
No edit summary
No edit summary
Line 27:
 
<big>'''१) स्थानिवदादेशोऽनल्विधौ''' (१.१.५६); '''२)''' '''अचः परस्मिन् पूर्वविधौ''' (१.१.५७) च इत्यनयोः विषये ज्ञातुम् [[SthAnivadAdEshonalvidau, achaH parasmin pUrvavidhau|'''''<u>अत्र</u>''''']] पश्यन्तु | अग्रे इतोऽपि सूत्रद्वयम् अस्ति अस्मिन् प्रकरणे '''न पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु''' (१.१.५८), '''द्विर्वचनेऽचि''' (१.१.५९) चेति | अनयोः सूत्रयोः विषये अस्माभिः अस्मिन् करपत्रे पठ्यते |</big>
 
 
<big>'''३) न पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु''' ( १.१.५८) = पदान्तविधौ, द्विर्वचनविधौ, वरे-विधौ, यलोपविधौ, स्वरविधौ, सवर्णविधौ, अनुस्वारविधौ, दीर्घविधौ, जश्विधौ चर्-विधौ च कर्तव्ये परनिमित्तकः अजादेशः स्थानिवत् न भवति |  विधिशब्दस्य प्रत्येकं सम्बन्धः अनेन न्यायेन - द्वन्द्वादौ, द्वन्द्वमध्ये, द्वन्द्वान्ते च श्रूयमाणं पदं प्रत्येकम् अभिसम्बध्यते इति | अस्य न्यायस्य अर्थः - द्वन्द्वसमासस्य अन्ते यत् पदम् अस्ति, तस्य पदस्य द्वन्द्वसमासे प्रत्येकं पदेन सह सम्बन्धः भवति इति | अतः एव विधिशब्दस्य प्रत्येकं सम्बन्धः इति कृत्वा पदान्तविधिः. द्विर्वचनविधिः, वरेविधिः, यलोपविधिः, स्वरविधिः, सवर्णविधिः, अनुस्वारविधिः, दीर्घविधिः, जश्विधिः, चर्‍-विधिः इति स्वीक्रियते |  पदस्य चरमावयवे द्विर्वचनादौ च कर्तव्ये परनिमित्तः अजादेशः न स्थानिवत् | इदं स्थानिवद्भावनिषेधकं सूत्रम् अस्ति | अर्थात् '''अचः परस्मिन् पूर्वविधौ''' (१.१.५७) इत्यस्य निषेधकं सूत्रम् | पदस्यान्तः पदान्तः, षष्ठीतत्पुरुषः | पदान्तः इत्यत्र अन्तः इति शब्दः चरमः, अन्त: इत्यर्थे स्वीकृतः, अर्थात् अन्त्यवर्णस्य बोधकः इत्यर्थः | द्वयोर्वचनं द्विर्वचनम् | यस्य लोपो यलोपः | निपातनात् वरे इत्यत्र विभक्त्यलोपः | पदान्तश्च द्विर्वचनं च वरे च यलोपश्च स्वरश्च सवर्णर्श्च अनुस्वारश्च दीर्घश्च जश्च चर्च तेषामितरेतरयोगद्वन्द्वः, पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वरदीर्घजश्चरः, तेषां विधयः पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधयस्तेषु, पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु अनेकसमसगर्भषष्ठीतत्पुरुषः। न इत्यव्ययम् | पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु सप्तमीबहुवचनान्तम् | '''स्थानिवदादेशोऽनल्विधौ''' (१.१.५६) इत्यस्मात् सूत्रात् स्थानिवत्, आदेशः इत्यनयोः अनुवृत्तिः | '''अचः परस्मिन् पूर्वविधौ''' (१.१.५७) इत्यस्मात् सम्पूर्णसूत्रस्य अनुवृत्तिः | वरे इत्यस्य अचः आदेशः इत्यनेन साक्षात् सम्बन्धः वर्तते |  अनुवृत्ति-सहित-सूत्रं—'''पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु अचः परस्मिन् पूर्वविधौ''' '''स्थानिवद् आदेशः न''' |</big>
 
 
Line 270:
 
 
<big>'''४) द्विर्वचनेऽचि''' (१.१.५९) = धातोः द्वित्वस्य निमित्तम् अजादिः प्रत्ययः अस्ति चेत्, तस्मिन् प्रत्यये परे द्वित्वे कर्तव्ये अजादेशः न भवति | यदि प्रक्रियायाम् अजादेशः तथा च अजादिनिमित्तकं  द्वित्वं द्वयमपि युगपत् प्राप्तं तर्हि आदौ द्वित्वकार्यं कृत्वा, तदनन्तरमेव अजादेशः कर्तव्यः, अतः एव अचः आदेशः न स्याद् द्वित्वे कर्तव्ये इति उक्तं कौमुदीकारेण | यावद् द्वित्वम् न कृतं तावत् अजादेशः अपि न करणीयः, परन्तु द्वित्वं क्रियते चेत् अग्रिमसोपाने एव अजादेशस्य प्रसक्तिः चेत्  करणीया | द्विरुच्यते अस्मिन् इति द्विर्वचनम्, अधिकरणे ल्युट् प्रत्ययः | तस्मिन् द्विर्वचने | '''अचः परस्मिन् पूर्वविधौ''' (१.१.५७) इत्यस्मात् अचः इत्यस्य अनुवृत्तिः  | '''स्थानिवदादेशोऽनल्विधौ''' ( १.१.५६)  इत्यस्मात् आदेशः इत्यस्य अनुवृत्तिः | '''न पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु''' ( १.१.५८) इत्यस्मात् सूत्रात्  न इत्यस्य अनुवृत्तिः | प्रकृतसूत्रे अचि इति पदं द्विर्वचने इत्यस्य विशेषणम् अस्ति | अनुवृत्ति-सहित-सूत्रं— '''अचः आदेशः न अचि द्विर्वचने''' |</big>
 
<big>प्रकृतसूत्रेण यस्य द्वित्वस्य विषये उक्तं तत्तु षष्ठाध्यायस्य प्रथमपादे यानि सूत्राणि उक्तानि द्वित्वस्य प्रसङ्गे तेषां विषये उक्तम् अस्ति | अर्थात् प्रकृतसूत्रेण तु धातोः द्वित्वस्य विषये उक्तम् अस्ति, एतत् तु अङ्गकार्यम् अस्ति |</big>
page_and_link_managers, Administrators
5,258

edits

Cookies help us deliver our services. By using our services, you agree to our use of cookies.

Navigation menu